पूर्वम्: ६।२।१४
अनन्तरम्: ६।२।१६
 
सूत्रम्
सुखप्रिययोर्हिते॥ ६।२।१५
काशिका-वृत्तिः
सुखप्रिययोर् हिते ६।२।१५

सुख प्रिय इत्येतयोरुत्तरपद्योर् हितवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। गमनसुखम्। वचनसुखम्। व्याहरणसुखम्। प्रिय गमनप्रियम्। वचनप्रियम्। व्याहरणप्रियम्। समानाधिकरणसमासा एते। तत्र सुखप्रियशब्दौ तद्धेतावायत्यां प्रीतिकरे वर्तते। तद् धि हितं यदायत्यं प्रीतिं करोति। गमनादिषु ल्युडन्तेषु लित्वरः। हिते इति किम्? परमसुखम्। परमप्रियम्।
न्यासः
सुखप्रिययोर्हिते। , ६।२।१५

"तत्र सुखप्रियशब्दौ" इत्यादि। तच्छब्देन सुखप्रिययोः प्रत्यवमर्शः, तयोः सुशप्रिययोः हेतुरायत्याम्()=जन्मान्तरे प्रीतिकरः। तत्र सुखप्रियशब्दौ वत्र्तते। किं कारणमेवं व्याख्यायते? इत्याह--"तद्धि हितम्()" इत्यादि। हि तदा चेत्यर्थः। तत्पुरुषे प्रकृतिभावोच्यं विधीयते। एष हि तत्पुरुषो हितवाची भवति, यदि सुखप्रियशब्दावृत्तरपदे हितहोतौ वत्र्तते। हितञ्च किम्()? यदायत्यां प्रीति करोति। कथं पुनः सुखाप्रियशब्दौ तद्धेतौ वत्र्तते कारणे कार्योपचारात्(), यथा --नड्वलोदकं पादरोग इति॥