पूर्वम्: ६।२।१३
अनन्तरम्: ६।२।१५
 
सूत्रम्
मात्रोपज्ञोपक्रमच्छाये नपुंसके॥ ६।२।१४
काशिका-वृत्तिः
मात्रोपज्ञोपक्रमच्छाये नपुंसके ६।२।१४

मात्रा उपज्ञा उपक्रम छाया एतेषु उत्तरपदेषु नपुंसकवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। भिक्षामात्रं न ददाति याचितः। समुद्रमात्रं न सरो ऽस्ति किंचन। मात्रशब्दो ऽयं वृत्तिविषय एव तुल्यप्रमाणे वर्तते। तत्र भिक्षायास् तुल्यप्रमाणम् इति अस्वपदविग्रहः षष्ठीसमासः। तत्र भिक्षाशब्दः गुरोश्च हलः ३।३।१०३ इत्यप्रत्ययान्तो ऽन्तोदात्तः। समुद्रशब्दो ऽपि फिषि पाटलापालङ्काम्बासागरार्थानाम् इत्यन्तोदात्त एव। उपज्ञा पाणिनोपज्ञम् अकालकम् व्याकरणम्। व्याङ्युपज्ञं दुष्करणम्। आपिशल्युपज्ञं गुरुलाघवम्। षष्ठीसमासा एते। तत्र पणिनो ऽप्त्यम् इत्यणन्तः पाणिनशब्दः प्रत्ययस्वरेण अन्तोदात्तः। व्याडिरिञन्तत्वादाद्युदात्तः। तद्वदापिशलिः। उपक्रम् आढ्योपक्रमम् प्रासादः। दर्शनीयोओपक्रमम्। सुकुमारोपक्रमम्। नन्दोपक्रमाणि मानानि। एते ऽपि षष्ठीसमासा एव। तत्रैत्यैनं ध्यायन्ति इत्याढ्याः। घञर्थे कविधानम् इति कप्रत्ययः। आङ्पूर्वाद् ध्यायतेः पृषोदरादित्वाद्धस्य ढत्वम्। तदयम् आढ्यशब्दः थाथादिस्वरेण अन्तोदात्तः। दर्शनीयशब्दो रित्वादुपोत्तमोदात्तः। सुकुमारशब्दः नञ्सुभ्याम् ६।२।१७१ इत्यन्तोदात्तः। दर्शनियशब्दो रित्वादुपोत्तमोदात्तः। सुकुमारशब्दः नञ्सुभ्याम् ६।२।१७१ इत्यन्तोदात्तः। नन्दशब्दः पचाद्यचि व्युत्पादितः। उपज्ञोपक्रमान्तस्य तत्पुरुषस्य नपुंसकलिङ्गता उपज्ञोपक्रमं तदाद्याचिख्यासायाम् २।३।२१ इति। छाया इषुच्छायम्। धनुश्छायम्। इषुशब्दः ईषेः किच्च इत्युप्रत्ययान्तः, तत्र च धान्ये नितिति वर्तते, तेन आद्युदात्तः। धनुः शब्दो ऽपि नब्विषयस्य अनिसन्तस्य इत्याद्युदात्त एव। इषूणां छाया इति षष्ठीसमासः। छाया बाहुल्ये २।४।२२ इति नपुंसकलिङ्गता। नपुंसके इति किम्? कुड्यच्छाया।
न्यासः
मात्रोपज्ञोपक्रमच्छाये नपुंसके। , ६।२।१४

"तुल्यप्रमाणे वर्तते" [तुल्यप्रमाणं--मुद्रिपाठः] इति। तुल्यं प्रमाणं यस्येति विग्रहः। "अस्वपदविग्रहः" इति स्वपदविग्रहः कस्मान्न भवति? ताशं हि--वाक्यं कर्तव्यं यथा समासार्थः प्रतीयते। "भक्षामात्रम्()" इति। अस्य च भिक्षायास्तुल्यप्रमाणमित्येषोऽर्थः। न चायं स्वपदविग्रहेण शक्यः प्रतिपादयितुम्(); मात्रशब्दस्य तुल्यप्रमाणवृत्तित्वात्()। स हि समास एव तुल्यप्रमाणे वर्तते, न वाक्ये। अत एवोक्तम्()--"मात्रशब्दोऽयं वृत्तिविषयः" इत्यादि। वृत्तिरिह समासवृत्तिरेव विषयः। "अप्रत्ययाऽन्तोदात्तः" [अप्रत्ययान्तोदात्तः--काशिकामुद्रितः पाठः] इति। टापा सहैकदेश उदात्तनोदात्तत्वात्()।