पूर्वम्: ६।२।१२
अनन्तरम्: ६।२।१४
 
सूत्रम्
गन्तव्यपण्यं वाणिजे॥ ६।२।१३
काशिका-वृत्तिः
गन्तव्यपण्य वाणिजे ६।२।१३

वाणिजशब्दे उत्तरपदे तत्पुरुषे समासे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरं भवति। मद्रवाणिजः। काश्मीरवाणिजः। गान्धारिवाणिजः। मद्रादिषु गत्वा व्यवहरन्ति इत्यर्थः। सप्तमीसमासा एते। तत्र मद्रशब्दो रक्प्रत्ययान्तत्वादन्तोदात्तः। काश्मीरशब्दो ऽपि पृषोदरादिषु मद्योदातः। गान्धारिशब्दः कर्दमादिषु पठ्यते, तत्र कर्दमादीनां च इति पक्षे आद्युदात्तो भवति, द्वितीयो वा। पण्ये गोवाणिजः। अश्ववाणिजः। गोशब्दो ऽन्तोदात्तः। अश्वशब्दः आद्युदात्तः। गन्तव्याण्यम् इति किम्? परमवाणिजः। उत्तमवाणिजः।
न्यासः
गन्तव्यपण्यं वाणिजे। , ६।२।१३

गमनीयम्()=गन्तव्यम्()। पण्यम्()=व्यवहत्र्तव्यमिति। "मद्रवाणिजः" इति। मद्रेषु यो व्यवहरति स एवमुच्यते। "सप्तमीसमासः" [सप्तमीसमासाः--काशिका] इति। "सप्तमी" २।१।३९ इति योगविभागात्()। "रक्प्रत्ययान्तत्वात्()" इति। "स्फयितञ्चि" (द।३।८।३१) इत्यादिना मदे रकं विधाय व्युत्पादितत्वात्()॥