पूर्वम्: ६।२।११६
अनन्तरम्: ६।२।११८
 
सूत्रम्
क्रत्वादयश्च॥ ६।२।११७
काशिका-वृत्तिः
क्रत्वादयश् च ६।२।११८

क्रत्वादयः सोरुत्तरे बहुव्रीहौ समासे आद्युदात्ता भवन्ति। सुक्रतुः। सुदृशीकः। क्रतु। दृशीक। प्रतीक। प्रतूर्ति। हव्य। भग। क्रत्वादिः।
न्यासः
क्रत्वादयश्च। , ६।२।११७

कृञः क्रतुः, तेन नित्स्वरेण क्रतुराद्युदात्तः। दृशीकप्रतीकशब्दौ "अध्र्यादयश्च" इत्याद्युदात्तौ। सूपूर्वस्यत्वरतेः क्तिन्()। "तादौ च निति कृत्यतौ" ६।२।५० इति गतिस्वरेम प्रतूर्तिशब्द ["प्रपूर्त्ति" क्रत्व दिषु पठ()ते--काशिका] आद्युदात्तः, "ज्बरत्वर" ६।४।२० इत्यादिनोठ्()। जुहोतेः "अचो यत्()" ३।१।९७ "यतोऽनावः" ६।१।२०७ इत्याद्युदात्तो भवति हव्यशब्दः। भजेः "खनो घ च" इति घः। अत्र हि घित्करणेन ज्ञापितम्()--अन्येभ्योऽपि धो भवतीति। वृषादित्वाद्भगशब्द आद्युदात्तः।