पूर्वम्: ६।२।१००
अनन्तरम्: ६।२।१०२
 
सूत्रम्
न हास्तिनफलकमार्देयाः॥ ६।२।१०१
काशिका-वृत्तिः
न हास्तिनफलकमार्देयाः ६।२।१०१

हास्तिन फलक मार्देय इत्येतानि पूर्वपदानि पुरशब्दे उत्तरपदे न अन्तोदात्तानि भवन्ति। पुरे प्राचाम् ६।२।९९ इति प्राप्तिः प्रतिषिध्यते। हास्तिनपुरम्। फलकपुरम्। मार्देयपुरम्। मृदोरपत्यं मार्देयः। शुभ्रादित्वात् ढक् ४।१।१२३
न्यासः
न हास्तिनफलकमार्देयाः। , ६।२।१०१