पूर्वम्: ६।२।१०१
अनन्तरम्: ६।२।१०३
 
सूत्रम्
कुसूलकूपकुम्भशालं बिले॥ ६।२।१०२
काशिका-वृत्तिः
कुसूलकूपकुम्भशालं बिले ६।२।१०२

कुसूल कूप कुम्भ शाला इत्येतानि पूर्वपदानि बिलशब्दे उत्तरपदे अन्तोदात्तानि भवन्ति। कुसूलबिलम्। कूपबिलम्। कुम्भबिलम् शालाबिलम्। कुसूलादिग्रहणं किम्? सर्पबिलम्। बिले इति किम्? कुसूलस्वामी।
न्यासः
कुसूलकूपकुम्भशालं बिले। , ६।२।१०२

"कुसूलबिलम्()" इत्येवमादयः षष्ठीसमासाः। समासस्वरापवादो योगः। एवमुत्तरेऽपि "बहुव्रीहौ वि()आं संज्ञायाम्()" ६।२।१०६ इत्यतः प्राग्योगाः समासस्वरापवादाः वेदितव्याः॥