पूर्वम्: ६।२।९९
अनन्तरम्: ६।२।१०१
 
सूत्रम्
अरिष्टगौडपूर्वे च॥ ६।२।१००
काशिका-वृत्तिः
अरिष्टगौडपूर्वे च ६।२।१००

अरिष्त गौड इत्येवं पूर्वे समासे पुरशब्दे उत्तरपदे पूर्वपदम् अन्तोदात्तं भवति। अरिष्टपुरम्। गौडपुरम्। पूर्वग्रहणं किम्? इह अपि यथा स्यात्। अरिष्टश्रितपुरम्। गौडभृत्यपुरम्।
न्यासः
अरिष्टगौडपूर्वे च। , ६।२।१००

"अरिष्टपुरम्? गौडपुरम्()" इति। एतावपि षष्ठीसमासावेव। "पूर्वग्रहणं किम्()" इति। एवं मन्यते--अरिष्टगौडयोरिति वक्तव्यम्(), एवमप्युच्यमानेऽरिष्टगोडयोः पुरशब्द उत्तरपदेऽन्तोदात्ततवं सिध्यत्येवेति। "इहापि यथा स्यात्()" इति। यदि पूर्वग्रहणं न क्रियेत्? तदारिष्टं श्रितस्तस्य पुरमरिष्टश्रितपुरमिति। गौडानां भृत्या गौडशब्दौ। पूर्वग्रहणे तु सति बहुव्रीहिर्लभ्यते--अरिष्टगौडौ पूर्वौ यस्मिन्? समासे सोऽरिष्टगौडपूर्व इति। तेनारिष्टश्रितपुरम्(), गौडभृत्यपुरमित्यत्रापि यदुत्तरपदं तस्याप्यन्तोदात्तत्वं भवत्येव। अत्रापि ह्ररिष्टशब्दो गौडशब्दश्च पूर्वः। पूर्वश्चायमवयववचनः॥