पूर्वम्: ६।२।१०
अनन्तरम्: ६।२।१२
 
सूत्रम्
सदृशप्रतिरूपयोः सादृश्ये॥ ६।२।११
काशिका-वृत्तिः
सदृशप्रतिरूपयोः सादृश्ये ६।२।११

सदृश प्रतिरूप इत्येतयोः उत्तरपदयोः सादृश्यवाचिनि तत्प्रुषे समासे पूर्वपदम् प्रकृतिस्वरं भवति। पितृसदृशः। मातृसदृशः। पितृमातृशब्दावुणादिष्वन्तोदात्तौ निपातितौ। षष्ठीसमासार्थं च सदृशग्रहणम् इह तदलुकि षष्ठ्याः प्रयोजयति, दास्याः सदृशः, वृषल्याः सदृशः इति। अत्र दासीवृषलीशब्दयोरन्तोदात्तत्वादुदात्तयणो हल् पूर्वत् ६।१।१६८ इति विभक्तिरन्तोदात्ता। पितृप्रतिरूपः। मातृप्रतिरूपः। सादृश्ये इति किम्? परमसदृशः। उत्तमसदृशः। समासार्थो ऽत्र पूज्यमानता न सादृश्यम्।
न्यासः
सदृशप्रतिरूपयोः सादृश्ये। , ६।२।११

"पितृसदृशः" इति। "तुल्यार्थेः" २।३।७२ इत्यादिना षष्ठी, तृतीया च, "पूर्वसदृश" २।१।३० इत्यादिना समासः। "पितृमातृशब्दावुणादिष्वन्तोदात्तौ निपातितौ" इति। "नप्तृनेष्टृत्वष्टृहोतृपोतृभातृजामातृपितृदुहितृ" (द।उ।२।३) इत्यत्र। अथ सदृशग्रहणं किमर्थम्(), यावता मातृसादृश पितृसदृश इत्यत्र "तत्पुरुषे तुल्यार्थं" (६।२।२) इत्येव सिद्धम्()? इत्यत आह--"षष्ठीसमासार्थञ्च" इत्यादि। तुल्यार्थे हि प्रयोगे षष्ठ()पि विधीयते। तत्र यदा मातृसदृश इति षष्ठीसमासः क्रियते, तदपि यथा स्यादित्येवमर्थं सदृशग्रहणम्()। सति त्वस्यारम्भे तृतीयासमानसेऽपि सदृशग्रहणं कत्र्तव्यमित्यत आह--"इह" इत्यादि। "दास्याः सदृशः, वृषल्याः सदृस" इति अत्र "षष्ठ()आ आक्रोशे" ६।३।२० इत्यलुकि कृते षष्ठीसमासस्तत्सदृशग्रहणं प्रयोजयति; अलुकि सति रूपविशेषस्य विद्यमानत्वात्()। यदि षष्ठीसमासार्थं सदृशग्रहणमिह क्रियते, तृतीयासमासो न कर्तवयः; विशेषाभावात्()? नैतदस्ति; तत्रापि हि कत्र्तव्य एव यत्र षष्ठ()र्थे नास्ति तदर्थः, यथा--विद्यया सदृशो विद्यासदृश इति, न ह्रत्र षष्ठ()र्थो विद्यते, किं तर्हि? तृतीयार्थः, विद्यया हेतुना सदृश इत्यर्थः। "अत्र" इत्यादि। तत्र दासीशब्दस्य ङीबुदात्तनिवृत्तिस्वरेणान्तोदात्तार्थः। "दशि सेवने" (धा।पा।१७८६) [दसि आप्यायने--धा।पा] इति, "दंशेष्टटनौ न आ च" (द।उ।९।१०३) इति टप्रत्ययान्तो नकारस्य चाकारादेशः। "टिड्ढाणञ्()" ४।१।१५ इति ङीप्(), "यस्येति" ६।४।१४८ लोपः "अनुदात्तस्य च यत्रोदात्तलोपः" ६।१।१५५ इत्युदात्तत्वम्()। वृषलीशब्दः "जातेरस्त्रीविषयात्()" ४।१।६३ इति ङीषन्तोऽन्तोदात्तो भवति प्रत्ययस्वरेण॥