यगि इति वर्तते। चायृ पूजानिशामनयोः इत्येतस्य धातोः यगि परतः की इत्ययम् आदेशो भवति। चेकीयते, चेकीयेते, चेकीयन्ते। दीर्घोच्चारणं यङ्लुगर्थम्। चेकीतः।
अथ किमर्थं दीर्घोच्चारणम्(), यावता ह्यस्वादेशेऽपि "अकृत्सार्वधातुकयोः" (७।४।
२५) इति दीर्घत्वेन चेकीयत इति सिद्धत्येव? इत्याह--"दीर्घोच्चारणम्()" इत्यादि। कथं पुनः "यङि च" (७।४।
३०) इत्युच्यमाने आदेशो यङ्लुकि स्यात्()? प्रत्ययलक्षणेन स्यात्()। अथापि "न लुमताङ्गस्य" (१।१।
६३) इति प्रत्ययलक्षणं प्रतिषिध्यते? एवमप्यस्मादेव दीर्घोच्चारमाद्यङ्लुकि भवतीति विज्ञायते, अन्यथा तदपार्थकं स्यात्()!
"चेकीतः" इति। तसन्तमेतत्()। "यङोऽचि च"
२।४।७४ इति यङो लुक्()॥