पूर्वम्: ६।१।१९
अनन्तरम्: ६।१।२१
 
सूत्रम्
न वशः॥ ६।१।२०
काशिका-वृत्तिः
न वशः ६।१।२०

यगि इति वर्तते। वशेर्धातोर् यङि परतः संप्रसारणं न भवति। वावश्यते, वावश्येते, वावश्यन्ते। यगि इति किम्? उष्टः। उशन्ति।