पूर्वम्: ६।१।२१
अनन्तरम्: ६।१।२३
 
सूत्रम्
स्फायः स्फी निष्ठायाम्॥ ६।१।२२
काशिका-वृत्तिः
स्फायः स्फी निष्ठायाम् ६।१।२२

स्फायी ओप्यायी वृद्धौ इत्यसय् धातोः निष्ठायां परतः स्फी इत्ययम् आदेशो भवति। स्फीतः। स्फीतवान्। निष्थायाम् इति किम्? शातिः। स्फातीभवति इत्येतदपि क्तिन्नन्तस्य एव रूपं, न निष्थान्तस्य। निष्ठायाम् इत्येतदधीक्रीयते लिङ्यङोश्च ६।१।२९ इति प्रागेतस्मात् सूत्रात्।
न्यासः
स्फायः स्फी निष्ठायाम्?। , ६।१।२२

"स्फातिः" इति। "स्त्रियां क्तिन्()" ३।३।९४ वलि ६।१।६४ यलोपः। "स्फातीभवति" इति। स्फायतेर्निष्ठान्ताच्चवौ कृते "अस्य च्वौ ७।४।३२ इतीत्वे सतीदं रूपं भवतीति मन्यमानो यश्चोदयेत्()--अथ कथं स्फातीभवतीत्येतद्रूपम्(), यावताऽत्रापि निष्ठायामस्मिन्नादेशे स्फीतिभवतीत्येवं भवितव्यमिति? तं प्रत्याह--"स्फातीभवतीत्येतदपि" इत्यादि। एतदपि स्फातिशब्दात्? क्तिन्नन्ताच्च्वौ कृते "च्वौ च" ७।४।२६ इति दीर्घत्वे च क्तिन्नन्तस्यैव रूपम्()। अतो न भवत्येष दोषप्रसङ्गः॥
बाल-मनोरमा
स्फायः स्फी निष्ठायाम् ८५१, ६।१।२२

स्फायः स्फी। "स्फायी वृद्धौ" अस्य स्फीभावः स्यान्निष्ठायां परत इत्यर्थः।

तत्त्व-बोधिनी
स्फायः स्फी निष्ठायाम् ६९७, ६।१।२२

स्फायः स्फी। स्फायी वृद्धौ। कथं तर्हि स्फीतिकाम इति?। स्फीतमाष्टे इति ण्यन्तादच इः, अल्लोपणिलोपौ।