पूर्वम्: ५।४।९५
अनन्तरम्: ५।४।९७
 
सूत्रम्
अतेः शुनः॥ ५।४।९६
काशिका-वृत्तिः
अतेः शुनः ५।४।९६

अतिशब्दात् परः यः श्वन्शब्दः तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। अतिक्रान्तः श्वानम् अतिश्वो वराहः। जववानित्यर्थः। अतिश्वः सेवकः। सुष्ठु स्वामिभक्तः इत्यर्थः। अतिश्वी सेवा। अतिनीचा इत्यर्थः।
न्यासः
अतेः शुनः। , ५।४।९६

"अति()आः" इति। प्रादिसमासः॥
बाल-मनोरमा
अतेः शुनः ७८८, ५।४।९६

अतेश्शुनः। अतीत्यव्ययात्परो यः ()आन्शब्दस्तदन्तात्तत्पुरुषाट्टजित्यर्थः। अति()आ इति। ()आआनमतिकान्त इति विग्रहः। अत्यादय इति समासः। टचि, टिलोपः। ()आआपेक्षयाधिकवेगवान्वराह इत्यर्थः। अति()आई सेवेति। ()आआनमतिक्रान्तेत्यर्थः। ()आआपेक्षया नीचा सेवेति यावत्। टच्, टिलोपः। टित्त्वान्ङीप्, यस्येति चेत्यकारलोपः।

तत्त्व-बोधिनी
अतेः शुनः ६९३, ५।४।९६

अति()आईति। नीचेत्यर्थः।