पूर्वम्: ५।४।९४
अनन्तरम्: ५।४।९६
 
सूत्रम्
ग्रामकौटाभ्यां च तक्ष्णः॥ ५।४।९५
काशिका-वृत्तिः
ग्रामकौटाभ्यां च तक्ष्णः ५।४।९५

जातिसंज्ञयोः इति न अनुवर्तते। ग्रामकौटाभ्यां परो यः तक्षन्शब्दः तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। ग्रामस्य तक्ष ग्रामतक्षः। बहूनं साधारणः इत्यर्थः। कुट्यां भवः कौटः, तस्य तक्षा कौटतक्षः। स्वतन्त्रः कर्मजीवी, न कस्य चित् प्रतिबद्धः इत्यर्थः। ग्रामकाउटाभ्याम् इति किम्? राजतक्षा।
न्यासः
ग्रामकौटाभ्याञ्च तक्ष्णः। , ५।४।९५

"बहूनां साधारण इत्यर्थः" इति। ग्रामशब्दस्य जनपदसमुदाये वृत्तेः। "कौटतक्षः" इति। पूर्ववत्समासः॥
बाल-मनोरमा
ग्रामकौटाभ्यां च तक्ष्णः ७८७, ५।४।९५

ग्रामकौटाभ्यां च। आभ्यां टजिति। ग्रामकौटाभ्यां परो यस्तक्षन्शब्दस्तदन्तात्तत्पुरुषाट्टच्स्यादित्यर्थः। ग्रामतक्ष इति। टचि टिलोपः। साधारण इति। ग्रामे यावन्तो जनाः सन्ति तावतां विधेय इत्यर्थः। कुट()आं भव इति। कुटीमेकां क्रयादिना सम्पाद्य तत्र यो वसति, न तु परकीयभूमिप्रदेशे स कौट इत्यर्थः। फलितमाह--स्वतन्त्र इति। कौटतक्ष इति। टचि, टिलोपः।

तत्त्व-बोधिनी
ग्रामकौटभ्यां च तक्ष्णः ६९२, ५।४।९५

ग्रामकौटाभ्यां। "जातिसंज्ञयोः"इति नानुवर्तते। ग्रामेति किम्()। राज्ञस्तक्षा राजतक्षा। अति()आ इति। ()आआनमतिक्रान्तो जेवेनेत्यर्थः।