पूर्वम्: ५।४।९६
अनन्तरम्: ५।४।९८
 
सूत्रम्
उपमानादप्राणिषु॥ ५।४।९७
काशिका-वृत्तिः
उअप्मानादप्राणिषु ५।४।९७

उपमानवाची यः श्वन्शब्दो ऽप्राणिषु वर्तते तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। आकर्षः श्वेव आकर्षश्वः। फलकश्वः। उपमितं व्याघ्रादिभिः इति समासः। उपमानातिति किम्? न श्वा अश्वा लोष्टः। अप्राणिषु इति किम्? वानरः श्वेव वानरश्वा।
न्यासः
उपमानादप्राणिषु। , ५।४।९७

"आकर्श()आः" इति। अत्र ()आआ उपमानम्()। "अ()आआ लोष्टः" इति। अत्रा()आशब्दोऽप्राणिनि लोष्टे वत्र्तते, न तूपमानम्()। "वानर()आआ" इति। उपमितं व्याघ्रादिभिः" इति समासः। अत्र प्राणिनि वानर()ओति शब्दो वत्र्तते॥
बाल-मनोरमा
उपमानादप्राणिषु ७८९, ५।४।९७

उपमानादप्राणिषु। आकर्षः ()ओवेति। आकृष्यते कुसूलदिगतधान्यमनेनेत्याकर्षः--पञ्चाङ्गुलो दारुविशेषः। "उपमितं व्याघ्रादिभिः" इति समासः। टच् टिलोपः, आकर्ष()आ इति रूपम्। उपमानात्किम्?। शुनो निष्क्रान्तो निः()आआ।

तत्त्व-बोधिनी
उपमानादप्राणिषु ६९४, ५।४।९७

आकर्षः ()ओवेति। "उपमितं व्याघ्रादी"ति समासः। आकृष्यतेऽनेन खलादिगतं धान्यमित्याकर्षः काष्ठविशेषः। उपमानात्किम्()। निष्क्रान्तः शुनो निः()आआ।