पूर्वम्: ५।४।९३
अनन्तरम्: ५।४।९५
 
सूत्रम्
अनोऽश्मायस्सरसाम् जातिसंज्ञयोः॥ ५।४।९४
काशिका-वृत्तिः
अनो ऽश्मायस्सरसां जातिसंज्ञायोः ५।४।९४

अनसश्मनयस् सरसित्येवम् अन्तात् तत्पुरुसात् टच् प्रत्ययो भवति जातौ संज्ञायान् च विषये। उपानसम् इति जातिः। महानसम् इति संज्ञा। अमृताश्म इति जातिः। पिण्डाश्म इति संज्ञा। कालायसम् इति जातिः। लोहितायसम् इति संज्ञा। मण्डूकसरसम् इति जातिः। जलसरसम् इति संज्ञा। जातिसंज्ञयोः इति किम्? सदनः। सदश्मा। सत्सरः।
न्यासः
अनोऽश्मायस्सरसां जातिसंज्ञयोः। , ५।४।९४

"उपानसम्()" इति। उपगतमन इति प्रादिसमासः। "महानसम्()" इति। महदन इति "सन्महत्()" २।१।६० इत्यादिना कर्मधारयसमासः। "अमृताश्मः, पिण्डाश्मः" इति। विशेषणसमासौ। एवं "कालायसम्()" "लोहितायसम्()" इति। "मण्डूकसरसम्(), जलसरसम्()" इति। षष्ठीसमासौ। "सदनः" इति। महानसवत्समासः॥
बाल-मनोरमा
अनोश्माऽयः सरसां जातिसंज्ञयोः ७८६, ५।४।९४

अनोऽश्यमायस्। उपानसमिति। उपगतमन इति प्रादिसमासः। अमृताश्म इति। अमृतोऽश्मेति विग्रहः। टचि टिलोपः। कालायसमिति। कालम् अय इति विग्रहः। टच्। "परवल्लिङ्ग"मिति नपुंसकत्वम्। मण्डूकसरसमिति। षष्ठीसमासः। टच्। जातिविशेषा एते। महानसं, पिण्डाश्मः, लोहितायसं, जलसरसमिति संज्ञाविशेषाः।