पूर्वम्: ५।४।९२
अनन्तरम्: ५।४।९४
 
सूत्रम्
अग्राख्यायामुरसः॥ ५।४।९३
काशिका-वृत्तिः
अग्राऽख्यायाम् उरसः ५।४।९३

उरस्शब्दान्तात् तत्पुरुषाट् टच् प्रत्ययो भवति, स चेदुरस्शब्दः अग्राख्यायां भवति। अग्र प्रधानम् उच्यते। यथा शरीरावयवानाम् उच्यते उरः प्रधानम्, एवम् अन्यो ऽपि प्रधानभूत उरस्शब्देन उच्यते। अश्वानाम् उरः अश्वोरसम्। हस्त्युरसम्। रथोरसम्। अग्राख्यायाम् इति किम्? देवदत्तस्य उरः देवदत्तोरः।
न्यासः
अग्राख्यायामुरसः। , ५।४।९३

स चेदुरःशब्दोऽग्रस्याख्या भवतीत्येनेन दर्शितम्()। "अ()आओरसम्()" इति। षष्ठीसमासः। अ()आआनां प्रधानमित्यर्थः। "हस्त्युरसम्(), रथोरसम्()" इति॥
बाल-मनोरमा
अग्राख्यायामुरसः ७८५, ५।४।९३

अग्राख्याया। शेषपूरणेन सूत्रं व्याचष्टे--टच् स्यादिति। पञ्चम्यर्थे सप्तमी। अग्रं प्रधानं, तद्वाची य उपश्शब्दस्तदन्तात्तत्पुरुषाट्टाच्स्यादित्यर्थः। "अग्नाख्याया"मिति पाठान्तरम्। अग्रे भवमग्रयं। मुख्यमिति यावत्। अ()आआनामुर इवेति। उरो यथा प्रधानं तथेत्यर्थः। उपश्शब्दस्य मुख्ये वृत्तौ लक्षणाबीजमिदम्। अ()आओरसमिति। उरश्शब्देन मुख्यवाचिना षष्ठीसमासः। टच्। "परल्लिङ्गम्" इति नपुंसकत्वम्। अग्राख्यायामिति किं?। देवदत्तस्योरः देवदत्तोरः।

तत्त्व-बोधिनी
अग्राख्यायामुरसः ६९१, ५।४।९३

अग्राख्यायाम्। पञ्चम्यर्थे सप्तमी। अग्रं प्रधानम्। अग्रवाची य उरःशब्दस्तदन्तात्तत्पुरुषाट्टच्स्यात्। अग्राख्यायां किम्()। देवदत्तस्योरो देवदत्तोरः।