पूर्वम्: ५।४।८१
अनन्तरम्: ५।४।८३
 
सूत्रम्
प्रतेरुरसः सप्तमीस्थात्॥ ५।४।८२
काशिका-वृत्तिः
प्रतेरुरसः सप्तमीस्थात् ५।४।८२

प्रतेः परो य उरस्शब्दः तदन्तात् समासातच् प्रत्ययो भवति, स चेदुरस्शब्दः सप्तमीस्थो भवति। सप्तम्यर्थे वर्तते इत्यर्थः। उरसि वर्तते। विभक्त्यर्थे अव्ययम् इति समासः। प्रत्युरसम्। सप्तमीस्थातिति किम्? प्रतिगतम् उरः प्रत्युरः।
न्यासः
प्रतेरुरसः सप्तमीस्थात्?। , ५।४।८२

"सप्तमीस्थात्()" इति। सप्तम्यां तिष्ठतीति सप्तमीस्थः, "सुपि स्()थः" ३।२।४ इति कप्रत्ययः। यश्च सप्तम्यर्थे वत्र्तते, एवं सप्तमीस्थो भवतीत्याह--"सप्तम्यर्थे वत्र्तते" इति। "प्रतिगतमुरः प्रत्युरः" इति। "अत्यादयः क्रान्ताद्यर्थे द्वितीयया" (वा। ९१) इति समासः॥