पूर्वम्: ५।४।८०
अनन्तरम्: ५।४।८२
 
सूत्रम्
अन्ववतप्ताद्रहसः॥ ५।४।८१
काशिका-वृत्तिः
अन्ववतप्ताद् रहसः ५।४।८१

अनु अव तप्त इत्येतेभ्यः परो यो रहस्शब्दः तदन्तात् समासादच् प्रत्ययः भवति। अनुरहसम्। अवरहसम्। तप्तरहसम्।
न्यासः
अन्ववतप्राद्रहसः। , ५।४।८१

"अनुरहसम्()" इति। रहःशब्दोऽयमप्रकाशे वत्र्तते। अनुगतं रहसः, अनुगतं रह इति वा प्रादिसमासः। अनुगतं रहोऽस्मिन्निति बहुव्रीहिर्वा। "अवरहसम्()" इति। अवहीनं रहसाऽवहीनं रह इति वा प्रादिसमासः। अवहीनं वा रहोऽस्मिन्निति बहुव्रीहिः। तप्तञ्च तद्रहश्चेति "तप्तरहसम्()" विशेषणसमासः। यदुत्पन्नं रहो लोते न केनचिदवगम्यते, तत्? तप्तरहसमित्युच्यते। तपतमिव तप्तम्(), यथैव ह्रग्निना तप्तं न केनचिदवगम्यते, तथेदमिति॥
बाल-मनोरमा
अन्ववतप्ताद्रहसः ९३६, ५।४।८१

अन्ववतप्ताद्रहसः। अनु अव तप्त एतेषां समाहारद्वन्द्वः। एभ्यः परो यो रहश्शब्दस्तस्मादच्स्यादित्यर्थः। रहः-अप्रकाशप्रदेशः। अनुरहसमिति। अनुगतं रह इति विग्रहः। अवरहसमिति। अवहीनं रह इति। विग्रहः। उभयत्र प्रादिसमासः। तप्तरहसमिति। तप्तं रह इति विग्रहः। प्रतेरुरसः। सप्तम्यर्थे द्योतकतया वर्तत इति सप्तमीस्थम्। सप्तम्यर्थद्योतकात् प्रतेः परो य उरश्शब्दस्तस्मादच् स्यादित्यर्थः। उरसीति। अनेन यदुच्यते तदेव प्रत्युरसमित्यनेनोच्यत इत्यर्थः। सप्तम्यर्थद्योतकः प्रतिः। तस्य विभक्त्यर्थे विद्यमानस्य "अव्ययं विभक्ती"त्यादिनाऽव्ययीभाव इति भावः।

तत्त्व-बोधिनी
अन्ववतप्ताद्रहसः ८१२, ५।४।८१

अन्वव। इह "रहः "इत्यप्रकाशमुच्यते। "अनुगतमवहीनं च रहः"इति प्रादिसमासः, "अनुगतं रहोऽस्मिन्नि"त्यादिबहुव्रीहिर्वा। प्तरहसमिति। "तप्तं च तद्रहश्चे"ति विग्रहः। परेणानधिगम्यमित्यर्थः। इत्यतः प्रागिति। "प्राग्बहुव्रीहिग्रहणं कर्तव्य"मिति वार्तिकोक्तेरिति भावः।