पूर्वम्: ५।४।८२
अनन्तरम्: ५।४।८४
 
सूत्रम्
अनुगवमायामे॥ ५।४।८३
काशिका-वृत्तिः
अनुगवम् आयामे ५।४।८३

अनुगवम् इत्यच्प्रत्ययान्तं निपात्यते आयमे ऽभिधेये। अनुगवम् यानम्। यस्य चायामः २।१।१५ इति समासः। आयमे इति किम्? गवां पश्चदनुगु।
न्यासः
अनुगवमायामे। , ५।४।८३

"आयामेऽभिधेये" इति। आयामः=दैष्र्यम्()। मत्वर्थीयाकारान्तश्चायम्()। आयामे चेत्यभिदेय इत्यर्थः। अन्यताऽनुगवं यानमिति सामानाधिकरण्यं न स्यात्()। यानम्()ायामः। "अनुगवं यानम्()" इति। गावो यथा तथा यानमायातमित्यर्थः। "गवां पश्चात्()" इति। "अव्ययं विभक्ति" २।१।६ इत्यादिनाव्ययीभावः पश्चादर्थे च। पूर्ववद्गोशब्दस्य ह्यस्वः। अनुशब्दात्प्रत्यये विधातव्ये यदनुगवमिति निपातनं तत्प्रसिद्ध्युपसंग्रहार्थम्()। तेन यद्गवा बाह्रं गोभिश्च तुल्यामामं तत्रैव भवति, नान्यत्र॥
बाल-मनोरमा
अनुगवमायामे ९३७, ५।४।८३

अनुगवमायामे। एतदिति। अनुगवमित्येतदित्यर्थः। अनुना दीर्घत्वे द्योत्येऽच्प्रत्ययान्तो निपात्यत इत्यर्थः। आयामशब्दो दीर्घपर इति भावः। अनुगवंयानामिति। अनुगोशब्दादचि अवादेश इति भावः। यस्य चेति। "यस्य चायामः" इत्यव्ययीभावसमासः। तथा च गोदैध्र्यकं यानमित्यर्थः फलतीति भावः।