पूर्वम्: ५।४।७९
अनन्तरम्: ५।४।८१
 
सूत्रम्
श्वसो वसीयःश्रेयसः॥ ५।४।८०
काशिका-वृत्तिः
श्वसो वसीयःश्रेयसः ५।४।८०

श्वसः परौ यौ वसीयस्श्रेयस्शब्दौ तदन्तात् समासातच् प्रत्ययो भवति। श्वोवसीयसम्। श्वःश्रेयसम्। मयूरव्यंसकादित्वात् समासः। स्वभावाच् च इह श्वःशब्दः उत्तरपदार्थस्य प्रशंसामाशीर् विषयाम् आचश्टे, श्वःश्रेयसं ते भूयत्। शोभनं श्रेयस् ते भूयातित्यर्थः। श्वोवसीयसम् इत्यस्य एव अयं पर्यायः।
न्यासः
�आसो वसीयःश्रेयसः। , ५।४।८०

"()आओवसीयम्()। ()आःश्रेयसम्()" इति। ()आओवसीयः, ()आः श्रेय इति विगृह्र मयूरव्यंसकादित्वात्? समासः। "स्वभावाच्च" इत्यादि। यद्यपि ()आःशब्दोऽन्यत्र कालविशेषे वत्र्तते, तथापीह समास उत्तरपदार्थस्य प्रशंसां स्तुतिमाशीर्विषयां प्रतिपादयति। कुतः? स्वभावात्()। शब्दानां ह्रर्थाभिधानं स्वाभाविकम्। तत्र स्वभाव एवात्र हेतुः। "()आओवसीयसमित्यस्यैवायं पर्यायः" इति। अस्येत्यनेन च ()आःश्रेयसमित्येष शब्दो निर्दिश्यते॥
बाल-मनोरमा
�आसीवसीयश्श्रेयसः ९३५, ५।४।८०

()आसः। "()आ"सित्यव्ययात् परो यो वसीयश्शब्दः, श्रेयश्शब्दश्च तस्मादच्स्यादित्यर्थः। वसुशब्दः प्रशस्तवाचीति। "यं कामयेत वसीयान् स्यादि"त्यादौ तथा दर्शनादिति भावः। तत इति। अतिशयेन वसुरिति विग्रहे "द्विवचनविभज्योपपद" इतीयसुनि, "तुरिष्ठेमेयस्सु" इत्यनुवृत्तौ "टे"रिति टिलोपे वसीयश्शब्द इत्यर्थः। ()आस्()शब्द इति। यद्यपि ()आस्शब्दः कालविशेषवाची तथापि प्रकृते शब्दशक्तिस्वबावादुत्तरपदार्थगतां प्रशंसामाशीर्विषयं द्योतयतीत्यर्थः। आशिषो वियः आशीर्विषयः, तमिति षष्ठीसमासः। प्रशंसाविशेषणम्। विषयशब्दस्य नित्यपुंलिङ्गत्वान्न स्त्रीलिङ्गता। एवं च ()आस्शब्द उत्तरपदार्थंगतप्राशस्त्यस्य द्योतक इति फलितोऽर्थः। ननु तर्हि ()आस्()शब्दस्योत्तरपदार्थगतप्राशस्त्यद्योतकत्वेऽप्युत्तरपदसामानाधिकरण्याऽभावात्कथं विशेषण समास इत्यत आह--मयूरेति। तथाचाशीर्लिङ्गादिप्रयोग एवास्य साधुत्वमित्यभिप्रेत्योदाहरति--()आओवसीयसमिति। अतिशयेन प्रशस्तमित्यर्थः। ()आःश्रेयसमिति। अतिशयेन प्रशत्मिति विग्रहे प्रशस्तशब्दादीयसुन्, "प्रशस्यस्य श्रः"। "प्रकृत्यैका"जिति प्रकृतिभावान्न टिलोपः। आद्गुणः। श्रेयसिति रूपम्। ()आस्शब्दस्तु उत्तरपदार्थगतप्रशंसाद्योतकः। "()आऋश्रेयसं शिवं भद्र"मित्यमरः। "ते भूया"दिति तु उभयत्रापि संबध्यते,-()आओवसीयसं ते भूयात्, ()आःश्रेयसं ते भूयादिति।

तत्त्व-बोधिनी
�आसीवसीयश्श्रेयसः ८११, ५।४।८०

()आसो। "अवस् शब्दात्प्रशस्तवचनादीयसुन्नि"त्याकरविरुद्धं व्याचक्षाणा उपेक्ष्या इति ध्वनयति--वसुशब्द इति। वसीय इति। "यः कामयेत वसीयान् स्या"मिति श्रौतप्रयोगोऽप्यत्रानुकूल इति भावः। ()आस्()शब्द इति। कालवाच्यप्ययं, प्रकृते त्वर्थविशेषपरः, शक्तिस्वाभाव्यात्तमेवाह---उत्तरपदार्थंप्रशंसामिति। उत्तरपदार्थभूतां प्रशंसामित्यर्थः। आशीर्विषयमिति। षष्ठीसमासः। विषयशब्दस्याऽजहल्लिङ्गत्वात्पुंलिङ्गनिर्देशः। "उत्तरपदार्थप्रशंसाया आशीर्विषयतामाहे"ति पाठान्तरं क्वचिदस्ति। उभयथापि आशीर्विषयताया द्योतकोऽयमिति फलितोऽर्थः।