पूर्वम्: ५।४।६४
अनन्तरम्: ५।४।६६
 
सूत्रम्
शूलात् पाके॥ ५।४।६५
काशिका-वृत्तिः
शूलात् पाके ५।४।६५

कृञः इत्येव। शूलशब्दात् पाकविषये डाच् प्रत्ययो भव्ति कृञो योगे। शूले पचति शूलाकरोति मांसम्। पाके इति किम्? शूलं करोति कृदन्नम्।
न्यासः
शूलात्पाके। , ५।४।६५

"शूलाकरोति मांसम्()" इति। पचतीत्यर्थः॥
बाल-मनोरमा
शूलात्पाके , ५।४।६५

शूलात्पाके। "डा"जिति शेषः। शूलाकरोतीति। अत्र करोतिः पाके वर्तते। तदाह--शूलेन पचतीत्यर्थ इति।

तत्त्व-बोधिनी
शूलात्पाके १५८७, ५।४।६५

शूलात्पाके। पाके किम्()। शूलं करोति कदन्नं। शूलमुदररोगः।

सत्यादशपथे। सत्सु साधु सत्यम्। "तत्र साधु"रिति प्राग्घितीयत्वाद्यति प्राप्ते अतएव निपातनाद्यः। अन्तोदात्तोऽयम्। "सत्येनोत्तभिता भूनिः" "ऋतं च सत्यं चे"त्यत्र तथा दर्शनात्। सत्याकरोतीति। भाण्डं----रत्नादिद्रव्यजातम्। क्रेतव्यमिति। "मयैवैतद्ग्राह्र"मिति बुद्द्या परीक्षादिना, सत्यङ्कारद्रव्यप्रदानेन च दृढं करोतीत्यर्थः। तथ्यमिति। तथैव तथ्यम्। "पादार्घाभ्यां च"इति चकारस्यानुक्तसमुच्चयार्()थत्वात्स्वार्थे यत्।