पूर्वम्: ५।४।६३
अनन्तरम्: ५।४।६५
 
सूत्रम्
दुःखात् प्रातिलोम्ये॥ ५।४।६४
काशिका-वृत्तिः
दुःखात् प्रातिलोम्ये ५।४।६४

कृञः इत्येव। दुःखशब्दात् प्रातिपदिकात् प्रातिलोम्ये गम्यमाने डाच् प्रत्ययो भवति कृञो योगे। प्रातिकूल्यं प्रतिकूलता। स्वाम्यादेश्चित्तपीडनम्। कुःखाकरोति भृत्यः। प्रातिलोम्ये इति किम्? दुःखं करोति कदन्नम्।
न्यासः
दुःखात्प्रातिलोम्ये। , ५।४।६४

"स्वाम्यादेश्चित्तपीडनम्()" इति। स्वाम्यादेरनभिमतानुष्ठानेनाभिमताननुष्ठानेन वा चित्तस्य पीडनं दुःखम्()=प्रातिलोम्यम्()। तदपि प्राणिधर्म एव॥
बाल-मनोरमा
दुःखात्प्रातिलोम्ये , ५।४।६४

दुःखात्। "डा"जिति शेषः। आराध्यप्रतिकूलाचरणं प्रातिलोम्यम्। अन्यत्पूर्ववत्।