पूर्वम्: ५।४।६२
अनन्तरम्: ५।४।६४
 
सूत्रम्
सुखप्रियादानुलोम्ये॥ ५।४।६३
काशिका-वृत्तिः
सुखप्रियादानुलोम्ये ५।४।६३

सुखप्रियशब्दाभ्याम् आनुलोम्ये वर्तमानाभ्यां कृञो योगे डाच् प्रत्ययो भवति। आनुलोम्यम् अनुकूलता, आराध्यचित्तानुवर्त्तनम्। सुखाकरोति। प्रियाकरोति। स्वाम्यादेः चित्तमाराधयति इत्यर्थः। सुखं प्रियं वा कुर्वन्नप्यानुलोम्ये ऽवस्थित एवम् उच्यते। आनुलोम्ये इति किम्? सुखं करोति, प्रियं करोति औषधपानम्।
बाल-मनोरमा
अभिविधौ संपदा च , ५।४।६३

अभिविधौ संपदा च। चकारः कृभ्यस्तिसमुच्चयार्थः। तदाह--संपदा कृभ्वस्तिभिश्चेति। अभिविधावित्यस्य विवरणम्-व्याप्ताविति। पक्षे इति। सातिप्रत्ययाऽभावपक्षे कृभ्वस्तियोगे पूर्वेण च्विः, संपदा योगे तु सातेरभावे वाक्यमेव, नतु च्विः, कृभ्वस्तियोग एव तद्विधानादित्यर्थः। सम्पदा योगे उदाहरति--अग्निसात्संपद्यत इति। कृभ्वस्तियोगे उदाहरति--अग्निसाद्भवति शस्त्रमिति। अग्निसात्करोति अग्निसात्स्यादित्यप्युदाहार्यम्। कार्त्स्न्याऽभिविध्योर्विशेषमाह--एकस्या व्यक्तेरित्यादिना।

बाल-मनोरमा
सुखप्रियादनुलोम्ये , ५।४।६३

सुखप्रियादानुलोम्ये। सुखशब्दात्प्रियशब्दाच्च आनुलोम्ये गम्ये डाच् स्यादित्यर्थः। आराध्यगुर्वादिचित्तानुवर्तमानुलोम्यम्। सुखाकरोति प्रियाकरोति गुरुमिति। चित्तानुवर्तनेन गुरु" सुखसंपन्नं प्रयसंपन्नं च करोतीत्यर्थः। तदाह--अनुकूलेति।