पूर्वम्: ५।४।१०२
अनन्तरम्: ५।४।१०४
 
सूत्रम्
अनसन्तान्नपुंसकाच्छन्दसि॥ ५।४।१०३
काशिका-वृत्तिः
अनसन्तान् नपुंसकाच् छन्दसि ५।४।१०३

अन्नन्तातसन्तात् च नपुंसकलिङ्गात् तत्पुरुषात् टच् प्रत्ययो भवति छन्दसि विषये। हस्तिचर्मे जुहोति। ऋषभचर्मे ऽभिषिच्यते। असन्तात् देवच्छन्दसानि। मनुष्यच्छन्दसम्। अनसन्तातिति किम्? बिल्वादारु जुहोति। नपुंसकातिति किम्? सुत्रामाणं पृथिवीं द्यामनेहसम्। अनसन्तान्नपुंसकाच्छन्दसि वावचनम्। ब्रहमसाम, ब्रहमसामम्। देवच्छन्दः, देवच्छन्दसम्।
न्यासः
अनसन्तान्नंपुसकाच्छन्दसि। , ५।४।१०३

"हस्तिचर्म" इत्यादयः षष्ठीसमासाः। "सुत्रामाणम्()" इति। शोभनस्त्रामा इति प्रादिसमासः, "अन्येषामपि वृश्यते" ६।३।१३६ इति पूर्वपदस्य दीर्घः, द्वितीयै कवचनम्? "सर्वनामस्थाने च" ६।४।८ इत्यादिनोपधादीर्घत्वम्(), "अट्? कुप्वाङ्()" ८।४।२ इत्यादिना णत्वम्()। "अनेहसाम्()" इति। अनेहःशब्दात्? पुंल्लिङ्गात्? षष्ठीबहुवचनम्()। वावचनमित्यनुवत्र्तत इति शेषः। वावचनशब्देनेह प्राग्ग्रहणं विवक्षितम्(); तेन विकल्प्य उच्यन्ते, प्रत्याय्यते प्रत्ययोऽनेनेति कृत्वा। तदेतदुक्तं भवति--" "खार्याः प्राचम्()" ५।४।१०१ इत्यतः प्राग्ग्रहणमनुवत्र्तते" इति। प्राग्ग्रहणानुवृत्तौ तु यदिष्टं सिध्यति तद्दर्शयति---"ब्राहृसाम" इति। "देवच्छन्दः" इति। उभयत्र षष्ठीसमासः॥