पूर्वम्: ५।४।१०१
अनन्तरम्: ५।४।१०३
 
सूत्रम्
द्वित्रिभ्यामञ्जलेः॥ ५।४।१०२
काशिका-वृत्तिः
द्वित्रिभ्याम् अञ्जलेः ५।४।१०२

द्वित्रिभ्यां परो यो ऽञ्जलिशब्दः तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। द्वावञ्जली समाहृतौ द्व्यञ्जलम्। त्र्यञ्जलम्। द्विगोः इत्येव, द्व्योरञ्जलिः द्व्यञ्जलिः। अतद्धितलुकि इत्येव, द्वाभ्याम् अञ्जलिभ्यां क्रीतः द्व्यञ्जलिः। त्र्यञ्जलिः। प्राचाम् इत्येव, द्व्यञ्जलिप्रियः।
न्यासः
द्वित्रिभ्यामञ्जलेः। , ५।४।१०२

"द्वाब्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः" इति। पूर्ववदर्हीयस्य लुक्()। "दे()व्यञ्जलिप्रियः" इति। पूर्ववदुत्तरपदे द्विगुः॥
बाल-मनोरमा
द्वित्रिभ्यामञ्जलेः ७९४, ५।४।१०२

द्वित्रिभ्यामञ्जलेः। शेषपूरणेन सूत्रं व्याचष्टे--टज्वा स्यादिति। द्विगाविति। द्व्यञ्जलमिति। द्वयोरञ्जल्योः समाहार इति विग्रहे द्विगुः, टच् "यस्येति च", "स नपुंसकम्"। द्व्यञ्जलीति। समाहारे द्विगुः। टजभावे सति नपुंसकह्यस्वत्वम्। अतद्धितलुकीत्येवेति। अनुवर्तत एवेत्यर्थः। अञ्जलिभ्यां क्रीत इति। अञ्जलिशब्दोऽञ्जलिपरिमितधान्यादौ वर्तते, केवलस्थाऽञ्जलेर्मूल्यत्वाऽडसम्भवात्। परिमाणत्वाट्ठञ्। "अध्यर्धे"ति तस्य लुक्।

तत्त्व-बोधिनी
द्वित्रिभ्यामञ्जलेः ६९९, ५।४।१०२

व्द्यञ्जलमिति। समाहारे द्विगुः। अतद्धितलुकीत्येवेति। एतच्च पूर्वसूत्रेऽपि बोध्यम्। अञ्जलिभ्यां क्रीत इति। नात्राऽञ्जलिः पाणिद्वयं, तस्य मूल्यत्वाऽसंभवात्, किन्तु अञ्जलिपरिमितो व्रीह्रादिर्विवक्षितः। ततश्टच परिमाणत्वादूव्द्यञ्जलिरित्यत्र ठञ्। तस्य तु "अध्यर्धपूर्वे "ति लुक्।