पूर्वम्: ५।४।१०३
अनन्तरम्: ५।४।१०५
 
सूत्रम्
ब्रह्मणो जानपदाख्यायाम्॥ ५।४।१०४
काशिका-वृत्तिः
ब्रह्मणो जानपदाख्यायाम् ५।४।१०४

ब्रह्मन्शब्दानतात् तत्पुरुषाट् टच् प्रत्ययो भवति समासेन चेद् ब्रह्मणो जानपदत्वम् आख्यायते। जनपदेषु भवः जानपदः। यस्य तत्प्रुषस्य जनपदशब्दः पूर्वपदं तस्मादेतत् प्रत्ययविधानम्। सुराष्ट्रेषु ब्रह्मा सुराष्ट्रब्रहमः। अवन्तिब्रह्मः। योगविभागात् सप्तमीसमासः। जानपदाख्यायम् इति किम्? देवब्रह्मा नारदः।
न्यासः
ब्राहृणो जानपदाख्यायाम्?। , ५।४।१०४

"जानपदाख्यायाम्()" इति। भावप्रधानोऽत्र जानपदशब्दः। अत एव वृत्तावाह--"समासेन चेद्ब्राहृणो जानपदत्वमाख्यायते" इति। भवति हि भावप्रत्ययमन्तरेणापि भावप्रधानो निर्देशः, यथा--"द्व्येकयोर्द्विवचनैकवचने" १।४।२२ इति। कथं पुनब्र्राहृणो जानपदत्वं शक्यं विशेषयितुम्(), यावतैकमिह ब्राहृग्रहणम्(), तेन च समासो विशेषितः? नैतदस्ति; तन्त्रेण द्वौ ब्राहृशब्दावृच्चरितौ--तत्रैकेन समासो विशेष्यते, अपरेण जानपदत्वम्(), यस्य तत्पुरुषस्य जनपदशब्दः पुर्वपदम्()। पूर्ववत्? समासः॥
बाल-मनोरमा
ब्राहृणो जानपदाख्यायाम् ७९५, ५।४।१०४

ब्राहृणो जानपदाख्यायां। जनपदे भवो जानपदः। भावप्रधानो निर्देशः। तस्य केनाख्येत्याकाङ्क्षायां प्रकृतत्वात्समासेनेति लभ्यते। तदाह--समासेनेत्यादि। जानपदत्वमित्यनन्तरं "ब्राहृण" इति शेषः। सुराष्ट्रे ब्राहृएति। ब्राहृशब्दोऽत्र पुंलिङ्गः। ब्राहृआ--विप्रः। "वेदस्तत्त्वं तपो ब्राहृ ब्राहृआ विप्रः प्रजापतिः" इत्यमरः। सप्तमीति योगुविभागात्समासः। टच्, टिलोपः, "परवल्लिङ्ग"मिति पुंस्त्वम्। जानपदेति किं?। देवब्राहृआ नारदः।

तत्त्व-बोधिनी
ब्राहृणो जानपदाख्यायाम् ७००, ५।४।१०४

ब्राहृणो। जनपदे भवो जानपदः। "द्व्येकयो"रितिवद्भावप्रधानो निर्देशस्तस्याख्यायां, प्रत्यासत्त्या समासेनेत्येतल्लभ्यते। तदाह---समासेन जानपदत्विमिति। कस्येत्याकाङ्क्षायां संनिधानाह्ब्राआहृण इति लभ्यते। सुराष्ट्रब्राहृ इति। "सप्तमी"ति योगविभागात्समासः। जानपदेति किम्()। देवब्राहृआ नारदः।