पूर्वम्: ५।३।८४
अनन्तरम्: ५।३।८६
 
सूत्रम्
अल्पे॥ ५।३।८५
काशिका-वृत्तिः
अल्पे ५।३।८५

परिमाणापचये अल्पशब्दः। प्रकृतिविशेषणं च एतत्। अल्पत्वविशिष्टे अर्थे वर्तमानात् प्रातिपदिकात् यथाविहितं पत्ययो भवति। अल्पं तैलम् तैलकम्। घृतकम्। सर्वकम्। विश्वकम्। उच्चकैः। नीचकैः। पचतकि। जल्पतकि।
न्यासः
अल्पे। , ५।३।८५

बाल-मनोरमा
अल्पे , ५।३।८५

अल्पे। अल्पत्वविशिष्टे वर्तमानाद्यथाविहितं प्रत्ययाः स्युः। तैलकमिति। "सर्वकम्" "उच्चकैः" "पचतकी"त्याद्यप्युदाहार्यम्।