पूर्वम्: ५।३।८५
अनन्तरम्: ५।३।८७
 
सूत्रम्
ह्रस्वे॥ ५।३।८६
काशिका-वृत्तिः
ह्रस्वे ५।३।८६

ह्रस्वत्वविशिष्टे ऽर्थे वर्तमानात् प्रातिपदिकात् यथाविहितं प्रत्ययो भवति। दीर्घप्रतियोही ह्रस्वः। ह्रस्वो वृक्षः वृक्षकः। प्लक्षकः। स्तम्भकः।
न्यासः
ह्वंस्वे। , ५।३।८६

"दीर्घप्रतियोगी ह्यस्वः" इति। स पुनर्यमपेक्ष्य दीर्घो भवति स वेदितव्यः। ननु च दीर्घत्वापचये सति ह्यस्वो भवति; यत्र दीर्घत्वापचयस्तत्राल्पतास्तीति पूर्वेणैव सिद्धम्()? न सिध्यति; न ह्रयं नियोगः--यत्र दीर्घस्यापचयस्तत्राल्पत्वेन भवितव्यमिति, तथा हि--सत्यप्यपचये महत्त्वगुणयुक्तं यद्वस्तु तदमहदेव भवति, न चाल्पम्()॥