पूर्वम्: ५।३।८३
अनन्तरम्: ५।३।८५
 
सूत्रम्
शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्॥ ५।३।८४
काशिका-वृत्तिः
शेवलसुपरिविशालावरुणार्यमाऽदिनां तृतीयात् ५।३।८४

शेवलादीनां मनुष्यनाम्नां ठाजादौ प्रत्यये परतः तृतीयादचः ऊर्ध्वस्य लोपो भवति। पूर्वस्य अयम् अपवादः। अनुकम्पितः शेवलदत्तः शेवलिकः, शेवलियः, शेवलिलः। सुपरिकः, सुपरियः, सुपरिलः। विशालिकः, विशालियः, विशालिलः। वरुणिकः, वरुणियः, वरुणिलः। अर्यमिकः, अर्यमियः, अर्यमिलः। शेवलादीनां तृतीयादचो लोपः स चाकृतसन्धीनाम् इति वक्तव्यम्। शेवलेन्द्रदत्तः, सुपर्याशीर्दत्तः शेवलिकः, सुपरिकः इति यथा स्यात्। शेवल्यिकः, सुपर्यिकः इति मा भूत्।
न्यासः
शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्?। , ५।३।८४

"स चाकृतसन्धीनाम्()" इति। यद्यस्वरसन्धौ लोपो भवत्येवं सिध्यति, नान्यथा। तस्मादकृतस्वरसन्धीनामेव शेवलादीनां लोपो भवतीति वक्तव्यम्()
बाल-मनोरमा
शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् , ५।३।८४

शेवल। एषामिति। शेवल, सुपरि, विशाल, वरुण, अर्यमन्-एतत्पूर्वपदकानामित्यर्थः। पूर्वस्येति। "ठाजादौ" इत्यस्येत्यर्थः। शेवलिक इति। शेवलदत्त शब्दाट्ठचि तृतीयादचः परस्य दत्तशब्दस्य लोपः। शेवलिल इति। इलचि रूपम्। सुपरिक इति। सुपरिदत्तशब्दाट्ठचि दत्तशब्दलोपः। विशालिक इति। विशालदत्तशब्दाट्ठचि रूपम्। वरुणिक इति। वरुणदत्तात्--वरुणिकः। अर्यमिक इति। अर्यमदत्तात्-अर्यमिकः। "अकृतसन्धीनामेषा"मिति वार्तिकं भाष्ये स्थितम्। तेन सुपर्याशीर्दत्तः सुपरिक इत्यादि सिध्यति।

तत्त्व-बोधिनी
शेवलसुपरिपिशालवरुणार्यमादीनां तृतीयात् १५२२, ५।३।८४

शेवलसुपरि। शेवलिक इति। "बह्वचो मनुष्यनाम्नः"इति ठच्। घनिलचोस्तु----शेवलियः। शेवलिलः। "शेवलादीनां तृतीयाल्लोपो य उच्यते स चाऽकृतसन्धीनां वक्तव्यः। सुपर्याशीः। सुपरिकः। सुपरियः। सुपरिलः" इति भाष्ये स्थितम्, कैयटेन तु "सुपरिकत"इति प्रतीकमुपादाय "संहिताकार्ये तु कृते लोपे सति "सपर्यिक"इति स्यादिति व्याख्यातम्। अयं भावः---संहिताकार्ये यणि कृते तृतीयादच ऊध्र्वं लोपे सति "शीर्दत्त"इत्यस्यैव लोपः स्यात्, आकारस्य तु "यस्येति चे"त्यनेन स्यात्, तथाच स्थानिवद्भावाद्यणो निवृत्तिर्न भविष्यतीति।