पूर्वम्: ५।३।८०
अनन्तरम्: ५।३।८२
 
सूत्रम्
जातिनाम्नः कन्॥ ५।३।८१
काशिका-वृत्तिः
जातिनाम्नः कन् ५।३।८१

बह्वचः इति न अनुवर्तते। सामान्येन विधानम्। जातिशब्दो यो मनुस्यनामधेयो व्याघ्र सिंह इत्येवम् आदिः, तस्मादनुकम्पायां नीतौ च कन्प्रत्ययो भवति। व्याघ्रकः। सिंहकः। शरभकः। वावचनानुवृत्तेर् यथादर्शनम् अन्यो ऽपि भवति। व्याघ्रिलः। सिंहिलः। नामग्रहणं स्वरूपनिवृत्त्यर्थम्।
न्यासः
जातिनाम्नः कन्?। , ५।३।८१

"नामग्रहणम्()" इति। असति हि नामग्रहणे जातिस्वरूपग्रहणं स्यात्()। अतः स्वरूपग्रवणं मा भूदित्येवमर्थं जातिग्रहणम्()॥
बाल-मनोरमा
जातिनाम्नः कन् , ५।३।८१

जातिनाम्नः कन्। जातिशब्दो य इति। यो जातिप्रवृत्तिनिमित्तकः प्रसिद्धः सन् मनुष्यनामधेयभूतः स इत्यर्थः। "अनुकम्पाया"मिति "नीतौ" इति च सूत्रद्वयविहितस्याऽपवादः।

द्वितीयं सन्ध्यक्षरं चेदिति। "एचः सन्ध्यक्षराणी"ति प्राचामाचार्याणां प्रवादः। कहोड इति। ऋषिविशेषस्य नामेदम्। अत्र द्वितीयोऽच् सन्ध्यक्षरं, तदादेर्लोपो, नतु तदूध्र्वस्यैव।

एकाक्षरेति। व्यञ्जनसहित एकोऽच--एकाक्षरम्। एकाच्कमिति यावत्। तथाविधं पूर्वपदं येषां पदानां तानि एकाक्षरपूर्वपदानि, तेषां मध्ये उत्तरभूतानि पदानि यावन्ति तेषां लोपः स्यादित्यर्थः। इह उत्तरपदशब्दो यौगिकः, नतु समासस्य चरमावयवे रूढो, व्याख्यानात्। "द्वितीयादच ऊध्र्व"मित्यनेन द्वितीयाज्विशिष्टस्य लोपे अप्राप्ते वचनमिदम्। वागाशीर्दत्त इति। वाचि आशीर्यस्य नतु मनस्येव स वागाशीः। तेन दत्त इति विग्रहः। यद्वा आशासनमाशीः, वाचा आशीः--वागाशीः। "कर्तृकरणे कृते"ति समासः। तया वागाशिषा दत्त इति विग्रहः। वाक्करणकाशासनेन दत्त इत्यर्थः। वाचिक इति। वागाशीर्दत्तशब्दाट्ठचि वागित्येकाक्षरपूर्वपदात्परयोराशीर्दत्तशब्दयोर्लोपे सति अन्तर्वर्तिविभक्त्या पदत्वमाश्रित्य प्रवृत्तकुत्वजश्त्वयोरिकाश्रयभत्वेन पदत्वबाधान्निवृत्तौ वाचिक इति रूपमिति केचित्। वस्तुतस्तु ठचि इकादेशात्प्राक्ठावस्थायामेव उत्तरपदलोपे कर्तव्येऽसिद्धत्वान्न पूर्वं कुत्वादिप्रवृत्तिरित्याहुः। यद्यपि द्वितीयादच ऊध्र्वस्य "शीर्दत्त" शब्दस्य लोपे वागा-इक इति स्थिते "यस्येति चे"त्याकारलोपे उक्तरीत्या कुत्वजश्त्वयोर्निर्वृत्तौ "वाचिक" इति सिध्यति, तथापि आकारलोपस्य स्थानिवत्त्वेन आकारान्तस्य इकमाश्रित्य भत्वे सति आकारान्तनिष्ठभत्वेन चकारान्तनिष्ठपदत्वस्याऽव्याघातात्कुत्वजश्त्वयोः "वागिक" इति स्यात्। उत्तरपदलोपे तु अज्झलादेशत्वेन स्थानिवत्त्वाऽभावात्तुल्यावधिकया भसंज्ञया "सुप्तिङन्त"मिति पदसंज्ञा बाध्यतेस, एकसंज्ञाधिकारे परत्वादिति भावः। कथमिति। अत्रापि अङ्गुलिदत्तशब्दस्य लोपे सति इकप्रत्ययाश्रितभत्वेन पदत्वाऽभावाज्जश्त्वं दुर्लभमिति प्रश्नः।

षष इति। षष्शब्दस्य पूर्वपदत्वे "ठाजादौ" इति सूत्रसिद्धो द्वितीयादच ऊध्र्वस्यैव लोपो, न त्वयमुत्तरपदलोप इति वचनात्षडिक इति सिद्धमित्यर्थः। एवंच "षडङ्गुलिदत्त" इत्यत्र डकाराऽकारादूध्र्वस्य लोपे सति डकाराऽकारस्य "यस्येति चे"ति लोपे सति तस्य स्थानिवत्त्तवेन अकारान्तस्य इकमाश्रित्य भत्वे सति तेन अकारान्तनिष्ठेन षकारान्तस्य पदत्वाऽव्याघाताज्जश्त्वं निर्बाधमिति भावः। स्पष्टं चेदं "स्वादिषु" इति सूत्रे भाष्ये।

तत्त्व-बोधिनी
जातिनाम्नाः कन् १५२१, ५।३।८१

जातिनाम्नः। ये शब्दा जात्यन्तरे प्रसिद्धाः, मनुष्येषु नामत्वेन विनियुक्तास्त इहोदाहरणम्।

द्वितीयं सन्ध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः। द्वितीयमित्यादि। "एचः सन्ध्यक्षराणी"ति प्राचां संज्ञा।

एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः। वागाशीरिति। वाचि आशीर्यस्येति विग्रङः। वाचिक इति। यद्यत्र द्वितीयादच ऊध्र्वस्य लोपः स्यात्तदा वाच् आ इक इति स्थिते "यस्येति चे"त्याकारस्य लोपे तस्य स्थानिवत्त्वादाकारान्तस्य भत्वे अन्तर्वर्तिनीं विभक्तिमाश्रित्य चकारान्तस्य पदत्वेन कुत्वजश्त्वयोः सतोर्वागिक इति स्ायात्।उत्तरपदलोपे तु अज्जलादेशत्वेन स्थानिवत्त्वाऽभावात्तुल्यावधिकतया "यचि भ"मिति भसंज्ञाया "सुप्तिङन्त"मिति पदसंज्ञा एकसंज्ञाधिकारात्परत्वाद्वाध्यते। "स्वादिषु"इति पदसंज्ञा तु न शङ्कनीयेव, "यचि भ"मिति भसंज्ञायास्तदपवादत्वात्। कथमिति। अत्राप्युत्तरपदलोपे जाते जश्त्त्वं दुर्लभमिति प्रश्नः।

षषष्ठाजादिवचनात्सिद्धम्। षष इति। अत्र सौत्र एव लोप इष्यते, न त्वौपसङ्ख्यानिक इत्यर्थः।