पूर्वम्: ५।३।७९
अनन्तरम्: ५।३।८१
 
सूत्रम्
प्राचामुपादेरडज्वुचौ च॥ ५।३।८०
काशिका-वृत्तिः
प्राचाम् उपादेरडज्वुचौ च ५।३।८०

पूर्ववत् सर्वम् अनुवर्तते। उपशब्द आदिर्यस्य तस्मादुपादेः प्रातिपदिकाद् बह्वचो मनुस्यनाम्नः। अडच्वुच्प्रत्ययौ भवतः। चकाराद् घनिलचौ प्रत्ययौ भवतः ठच् च वा। उपडः, उपकः, उपियः, उपिलः, उपिकः, उपेन्द्रदत्तकः। प्राचांग्रहणं पूजार्थम्। वा इत्येव हि वर्तते।
न्यासः
प्राचामुपादेरडज्वुचौ च। , ५।३।८०

उपड इत्यादौ उपेन्द्रदत्तशब्दात्प्रत्ययः। विकल्पार्थं प्राग्ग्रहणं कस्मान्न भवति? इत्याह--"वेत्येव हि" इत्यादि। अत्र हे वेत्यनुवत्र्तते, तस्मात्तेनैव विकल्पस्य सम्पादितत्वात्? तदर्थग्रहणं नोपपद्यते॥
बाल-मनोरमा
प्राचामुपादेरडज्बुचौ च , ५।३।८०

प्राचामुपादेरडज्वुचौ च। पूर्वविषये इति। "बह्वचो मनुष्यनाम्नः" इति सूत्रविषये इत्यर्थः। चाद्यथाप्राप्तमिति। ठच्, धन्, इलच्चेत्यर्थः। ठज्वेत्यतो वेत्यनुवृत्त्यैव सिद्धे प्राचाङ्ग्रहणं व्यर्थमित्यत आह--प्राचाङ्ग्रहणमिति। उपड इति उपेन्द्रदत्तशब्दादडचि "द्वितीयं सन्ध्यक्षर"मिति वक्ष्यमाणेन एकारादेर्लोप इति केचित्। "नेन्द्रस्य परस्ये"ति ज्ञापकेन पूर्वोत्तरपदनिमित्तकार्यापेक्षया अन्तरङ्गस्याप्येकादेशस्य पूर्वमप्रवृत्तेरिकारादिलोप इति शब्देन्दुशेखरे। उपक इति। वुचि अकादेशे एकारादिलोपे रूपम्। उपिय इति। घनि रूपम्। उपिल इति। इलचि रूपम्। उपिक इति। ठचि रूपम्। उपेन्द्रदत्तक इति। कप्रत्यये रूपम्। ठाजाद्यभावाल्लोपो न।

तत्त्व-बोधिनी
प्राचामुपादेरडज्बुचौ च १५२०, ५।३।८०

प्राचामुपादेः। "बह्वचो मनुष्ये"त्याद्यनुवर्तते। उपेन्द्रदत्त इति। ननु कृतसन्धेरूपेन्द्रशब्दादेकादेशस्य पूर्वान्ततया ग्रहणात् "उपादे"रिति विधीयमानौ प्रत्ययौ स्तां नाम, लोपस्तु नकारादेरेव स्यात्। ततश्च "उपक" "उपड"इति रूपे न स्यातां, किं तु "उपयक" "उपयड"इति रूपे स्याताम्। एवं घनिलच्()ठच्()ष्वपि दोष एव। तस्मादिहैव "द्वितीयं सन्ध्यक्षरं चे"दिति वार्तिकं कुतो नोक्तमिति चेत्। अत्राहुः---प्रकारान्तरेण निर्वाहसंभवान्नोक्तम्। तथाहि---आद्गुणे कृते "द्वितीयं सन्ध्यक्षर"मित्यादिना अकारस्यापि लोपप्रक्त्या गुणात्पूर्वमेवाऽकृतव्यूहपरिभाषया प्रत्ययः। नच परिनिष्ठितत्वपरेण समर्थग्रहणेन सौत्थितिरित्यत्रेव परिभाषाबाधः शङ्क्यः। "प्राग्दिशः"इति सूत्रे "समर्थग्रहणं निवृत्त"मित्युक्तत्वात्। "अकृतसन्धे"रिति प्रागुक्तज्ञापकबलेन समर्थग्रहणप्रत्यार्()यानपक्षेऽपि ज्ञापकस्य विशेषपरत्वाश्रयणादिति। उपेन्द्रः ष उपगुः, उपकर्तेत्यादिषूपडादीनां पञ्चानां रूपाणां साम्येऽपि सैन्धवादिष्विव प्रकरणादिना विसेषेऽध्यवसेयः।