पूर्वम्: ५।३।८१
अनन्तरम्: ५।३।८३
 
सूत्रम्
अजिनान्तस्योत्तरपदलोपश्च॥ ५।३।८२
काशिका-वृत्तिः
अजिनान्तस्य उत्तरपदलोपश् च ५।३।८२

कनित्यनुवर्तते, मनुस्यनाम्नः इति च। अजिनशब्दान्तात् प्रातिपदिकान् मनुस्यनाम्नो ऽनुकम्पायां कन्प्रत्ययो भवति, तस्य च उत्तरपदलोपः। व्याघ्राजिनो नाम् अकश्चिन् मनुस्यः, सो ऽनुकम्पितः व्याघ्रकः। सिंहकः।
न्यासः
अजिनान्तस्योत्तरपदलोपश्च। , ५।३।८२

"व्याघ्राजिनो नाम कश्चित्()" इति। व्याघ्रस्याजिनम्(), व्याघ्राजिनमिवाजिनं यस्येति व्याघ्राजिनः। "सप्तम्युपमानपूर्वस्य बहुव्रीहिरुत्तरपदलोपश्च" (वा। ९९) इति बहुव्रीहावुत्तरपदलोपे कृते व्याघ्राजिन इत्येष शब्दः सम्पद्यते। अथाजिनलोपश्चेत्येवं कस्मान्नोक्तम्(), किमुत्तरपदग्रहणेन? नैवं शक्यम्(); व्याघ्रमहाजिनौ नामकश्चित्(), सोऽनुकम्पितः--व्माघ्रक इत्यत्राजिनशब्दस्य लोप उच्यमाने महच्छब्दस्य निवृत्तिर्न स्यात्()। उत्तरपदस्यतु लोपे विधीयमाने भवति। तस्माद्यथान्यासमेवास्तु। महदजिनं महाजिनम्(), व्याघ्रस्य महाजिनमिव महाजिनमस्येति पूर्ववदुत्तरपदलोपी बहुव्रीहिः, ततः कन्()॥
बाल-मनोरमा
अजिनान्तस्योत्तरपदलोपश्च , ५।३।८२

अजिनान्तस्य। व्याघ्रक इति। "व्याघ्राजिन" इति कस्यचिन्मनुष्यस्य नाम। तस्मात्कनि अजिनकस्य लोपः। सिंहक इति। सिंहाजिनशब्दात्कनि अजिनस्य लोपः।