पूर्वम्: ५।३।३१
अनन्तरम्: ५।३।३३
 
सूत्रम्
पश्चात्॥ ५।३।३२
काशिका-वृत्तिः
पश्चात् ५।३।३२

पश्चादित्ययं शब्दो निपात्यते ऽस्तातेरर्थे। अपरस्य पश्चभावः आतिश्च प्रत्ययः। अपरस्यां दिशि वसति पश्चाद् दिशि वसति। पश्चादागतः। पश्चाद् रमणीयम्। दिक्पूर्वपदस्य अपरस्य पश्चभावो वक्तव्य आतिश्च प्रत्ययः। दक्षिणापश्चात्। उत्तरपश्चात्। अर्धोत्तरपदस्य दिक्पूर्वस्य पश्चभावो वक्तव्यः। दक्षिणपश्चार्धः। उत्तरपश्चार्धः। विना ऽपि पूर्वपदेन पश्चभावो वक्तव्यः। पश्चार्धः।
न्यासः
पश्चात्?। , ५।३।३२

"आतिश्च प्रत्ययः" इति। अयमप्यस्तातेरपवादः। "दक्षिणपश्चादुत्तरपश्चात्()" इति। दक्षिणापरस्यां दिशि वसतीति दक्षिणपश्चात्? एवमुत्तरपश्चात्()। "अर्धोत्तरपदस्य च" इति अपरस्येति सम्बध्यते। "विनापि पूर्वपदेन पश्चभावो वक्तव्यः" इति। अपरस्यार्द्धोत्तरपदस्येति प्रकृतेन सम्बन्धनीयम्()। अत्र सर्वत्र वक्तव्यशब्दो व्याख्याने दत्र्तते तत्रेदं व्याख्यानम्()--उत्तरसत्रात्? सिंहावलोकितेन चकारोऽत्रावतिष्ठते, स चानुक्तसमुच्चायार्थः। तेन दिक्पूर्वपदस्यापरशब्दस्य पश्चभाव इत्येवमादिकं कार्यं सिद्धं भवति॥