पूर्वम्: ५।३।३२
अनन्तरम्: ५।३।३४
 
सूत्रम्
पश्च पश्चा च च्छन्दसि॥ ५।३।३३
काशिका-वृत्तिः
पश्च पश्चा च छन्दसि ५।३।३३

पश्चपश्चाशब्दौ निपात्येते छन्दसि विषये अस्तातेरर्थे। चकारात् पश्चादपि भवति। अपरस्य पश्चभावो ऽकाराकारौ च प्रत्ययौ निपात्येते। पुरा व्याघ्रो जायते पश्च सिंहः। पश्चा सिंहः। पश्चात् सिंहः।
न्यासः
पश्च पश्चा च च्छन्दसि। , ५।३।३३