पूर्वम्: ५।३।३०
अनन्तरम्: ५।३।३२
 
सूत्रम्
उपर्युपरिष्टात्॥ ५।३।३१
काशिका-वृत्तिः
उपर्युपरिष्टात् ५।३।३१

उपरि उपरिष्टतित्येतौ शब्दौ निपात्येते अस्तातेरर्थे। ऊर्ध्वस्य उपभावः रिल्रिष्टातिलौ च प्रत्ययौ निपात्येते। ऊर्ध्वायां दिशि वसति उपरि वसति। उपर्यागतः। उपरि रमणीयम्। उपरिष्टद् वसति। उपरिष्टादागतः। उपरिष्ताद् रमणीयम्।
न्यासः
उपर्युपरिष्टात्?। , ५।३।३१

"रिल्()रिष्टातिलौ च प्रत्ययौ निपात्येते" इति अस्तातेरपवादौ॥
न्यासः
वण चानित्ये। , ५।३।३१

लोहितकः कोपेन" इति। लोहितशब्दवाच्यो वर्णः कोपे सति भवति। स्थित एव च देवदत्ते कोपविगमे गच्छतीत्यनित्यो भवति। अथ वर्णग्रहणं किमर्थम्(), यावता लोहितशब्दो वर्ण एव वत्र्तते? नैतदस्ति; मणिनिमित्तोऽप्ययं द्रव्येऽपि वत्र्तत एव, तत्रासति वर्णग्रहणे द्रव्यस्याप्यनित्यग्रहणं विशेषणं विज्ञायेत, ततश्च लोहितकाः पार्थिवाः परमाणव इति प्रत्ययो न स्यात्(); तेषां नित्यत्वात्()। वर्णग्रहणे तु सति वर्णस्यैवानित्यग्रहणं विशेषणं भवतीति नित्ये प्रत्ययः सिद्धो भवति। अपि च--लोहितशब्दो वर्मनिमित्त एव रुधिराख्ये वत्र्तते। तच्च सर्वत्रैवानित्य इति विशेषणोपादानसामथ्र्यादनित्ये कार्यविशेष उच्यते। स पुनः सत्येवाश्रये कदाचिद्भवति, कदाचिन्नेति। तेन यदेतत्? स्त्रोणामात्र्तवं लोहितं तत्रैव स्यात्()। तस्माद्वर्णग्रहणं कत्र्तव्यम्()। "लोहितो गौः, लोहितं रुधिरम्()" इत्यत्र यावदाश्रयस्तावदवस्थानादनित्यो वर्णो न भवति। ननु चायमप्याश्रयविनाशेन विनाशादनित्य एव? सत्यमेतत्(); सर्व एव हि वर्ण ईदृशः। उच्यते चेदमनित्य इति विशेषणोपादानसामथ्र्यात्()। तेन प्रकर्षेण योऽन्त्य इति विज्ञायते, स पनः सत्येवाश्रये, अभूत्वा भवतीति यो भूत्वा प्रतिगच्छति स एव भवितुमर्हति। "लोहिताल्लिङ्गबाधनम्()" इत्यादि। लिङ्गधिकारे यो विहितः प्रत्ययः स उपचारालिङ्गशब्देनोक्तः, तस्य लोहितशब्दाद्बाधनं भवतीति वक्तव्यम्(); अन्यथा स्त्रीत्वस्य वर्णानित्यस्य युगपद्विक्षायां लोहितशब्दात्? "वर्णादनुदात्तात्तोपधात्तो नः" (४।१।३९) इति यो ङीप्? प्राप्नोति, स कना नित्यं बाध्येत। तस्य हि हरित वर्णादिरवकाशः प्राप्नोति, तत्र कनि कृते तदन्ताट्टापि लोहितकेत्येव स्तात्? लोहिनिकेत्येवं तु न प्राप्नोति। "तस्माद्धि लिङ्गबाधनं कत्र्तव्यम्()। एवं लोहितशब्दात्? "वर्णादनुदात्तात्()" ४।१।३९ इत्यादिना ङीपि तकारस्य नकारे ततोऽनेन कन्()। "केऽणः" ७।४।१३ इति ह्यस्वत्वे कृते लोहिनिकेति भवति॥
बाल-मनोरमा
उपर्युपरिष्टात् , ५।३।३१

उपर्युपरिष्टात्। "उध्र्वस्य उपभावो रिल्प्रत्ययो रिष्टातिल्प्रत्ययश्चे"ति भाष्यम्। तदाह--अस्तातेर्विषये इत्यादिना। वसति, आगतो, रमणीयं वेति--विभक्तित्रयस्य यथासङ्ख्यमुदाहरणम्।

पश्चात्। "अपरस्य पश्चभावः, आतिश्च प्रत्ययः" इति भाष्यवाक्यमिदम्। प्रत्यये इकार उच्चारणार्थः।