पूर्वम्: ५।३।१०३
अनन्तरम्: ५।३।१०५
 
सूत्रम्
द्रव्यं च भव्ये॥ ५।३।१०४
काशिका-वृत्तिः
द्रव्यं च भव्ये ५।३।१०४

द्रव्यशब्दो विपात्यते भव्ये ऽभिधेये। द्रुशब्दादिवार्थे यत्प्रत्ययो निपात्यते। द्रव्यम्, भव्यः, आत्मवानधिप्रेतानाम् अर्थनां पात्रभूत उच्यते। द्रव्यो ऽयं राजपुत्रः। द्रव्यो ऽयं माणवकः।
न्यासः
द्रव्यञ्च भव्ये। , ५।३।१०४

बाल-मनोरमा
द्रव्यं च भव्ये , ५।३।१०४

द्रव्यं च भव्ये। द्रुशब्दादिवार्थवृत्तेर्यप्रत्ययो निपात्यते भव्ये उपमेये गम्ये। भव्य आत्मवान्। "अभिप्रेतानामर्थानां पात्रभूतः" इति वृत्तिः। द्रव्यमयमिति। द्रुः=वृक्षः, स यथा पुष्पफलादिभागेवमभिमतफलपात्रभूत इत्यर्थः। यद्वा द्रुः=कल्पवृक्षो।ञत्र विवक्षितः, स इव अभिमतार्थभागित्यर्थः। यप्रत्यये ओर्गुणः। अवादेशः।

तत्त्व-बोधिनी
द्रव्य च भव्ये १५३६, ५।३।१०४

द्रव्यं च भव्ये। द्रुशब्दादिवार्थे यत्प्रत्ययो निपात्यते। समासाच्च तद्विषयात्। तच्छब्देन प्रकृत इवार्थो निर्दिश्यते इत्याह---इवार्थविषयादिति। थः स्यादिति। इवार्थे इति बोध्यम्। "पूगाञ्ञ्यः"इत्यतः प्रागिवेत्याधिकारात्। शास्त्री श्यामेत्यादौ तु एक एव इवार्थः, स च समासान्तर्भूत इति छो न भवत्युक्तार्थानामप्रयोगात्।