पूर्वम्: ५।३।१०४
अनन्तरम्: ५।३।१०६
 
सूत्रम्
कुशाग्राच्छः॥ ५।३।१०५
काशिका-वृत्तिः
कुशाग्राच् छः ५।३।१०५

कुशाग्रशब्दादिवार्थे छः प्रत्ययो भवति। कुशाग्रम् इव सूक्ष्मत्वात् कुशाग्रीया बुद्धिः। कुशाग्रीयं शस्त्रम्।
न्यासः
कुशाग्राच्छः। , ५।३।१०५

बाल-मनोरमा
कुशाग्राच्छः , ५।३।१०५

कुशाग्राच्छः। इवे इत्येव। कुशाग्रमिवेति। सूक्ष्मत्वेन सादृश्यम्। कुशाग्रवत्सूक्ष्मेत्यर्थः।