पूर्वम्: ५।३।१०२
अनन्तरम्: ५।३।१०४
 
सूत्रम्
शाखाऽ‌ऽदिभ्यो यत्॥ ५।३।१०३
काशिका-वृत्तिः
शाखादिभ्यो यत् ५।३।१०३

शाखा इत्येवम् आदिभ्यः प्रातिपदिकेभ्यः पत्प्रत्ययो भवति इवार्थे शाखेव शख्यः। मुख्यः। जघन्यः। शाखा। मुख। जघन। शृङ्ग। मेघ। चरण। स्कन्ध। शिरस्। उरस्। अग्र। शरन। शाखादिः।
न्यासः
शाखादिभ्यो यत्। , ५।३।१०३

बाल-मनोरमा
शाखादिभ्यो यः , ५।३।१०३

शाखादिभ्यो यत्। "य" इति त्वपपाठः। तैत्तिरीये"मुख्यो भवती"त्यादौ मुख्यशब्दस्य आद्युदात्तत्वदर्शनात्, उगवादिसूत्रभाष्यविरुद्धत्वाच्च।