पूर्वम्: ५।२।८९
अनन्तरम्: ५।२।९१
 
सूत्रम्
साक्षाद्द्रष्टरि संज्ञायाम्॥ ५।२।९०
काशिका-वृत्तिः
साक्षाद् द्रष्टरि संज्ञायाम् ५।२।९१

साक्षाच्छब्दो ऽव्ययम्। तस्मादिनिः प्रत्ययो भवति द्रष्टरि वाच्ये। संज्ञाग्रहणम् अभिधेयनियमार्थम्। साक्षाद् द्रष्टा साक्षी। साक्षिणौ। साक्षिणः। संज्ञाग्रहणादुपद्रष्टा एव उच्यते, न दाता ग्रहीता वा।
न्यासः
साक्षाद्द्रष्टरि संज्ञायाम्?। , ५।२।९०

"संज्ञाग्रहणम्()" इत्यादि। विशिष्ट एवाभिधधेये प्रत्ययान्तस्य वृत्तिरभिधेयनियमः" (वा। ८०२) इति टिलोपः। "संज्ञग्रहणम्()" इत्यादि। असति हि संज्ञाग्रहणे यथोग्रहणे यथोपद्रष्टा साक्षिशब्देनोच्यते, तथा दाता ग्रहीता चोच्येयाताम्(), एतावपि हि द्रष्टारौ भवत एव। संज्ञाग्रहणादुपद्रष्टैवोच्यते। दातृग्रहीतृभ्यां योऽन्यो द्रष्टा समीपे स उपद्रष्टा। ननु च "स्वामी()आराधिपतिदायादसाक्षि" २।३।३९ इति निपातनादेव साक्षिशब्दः साधुर्भाविष्यति, अभिधेयनियमोऽपि लौकिकत्वादस्य पदस्य लोकोक्त एव विज्ञास्यते, तदपार्थकमिदम्()? नैतदस्ति; न हि तस्मिन्? निपातने साक्षिशब्दस्य नकारान्तता शक्यते व्यवसातुम्, प्रमाणाभावात्()। लोके न स्वाभिधेये प्रतीयमाने प्रतिपत्तिगौरवं स्यात्। तस्मान्नकारान्तताप्रतिपत्तिगौरवपरिहारार्थं चेदमुच्यते॥
बाल-मनोरमा
साक्षाद्द्रष्टरि संज्ञायाम् १८६६, ५।२।९०

साक्षाद्द्रष्टरि। "साक्षा"दित्यव्ययम्, इह शब्दस्वरूपपरं लुप्तपञ्चमीकम्। साक्षादित्यव्ययाद्द्रष्टर्यर्थे इनिः स्यादित्यर्थः। साक्षीति। यः कर्मणि स्वयं न व्याप्रियते, किन्तु कर्म क्रियमाणं पश्यति सोऽयं साक्षीत्युच्यते। साक्षादित्यव्ययादिनिप्रत्ययः। "अव्ययानां भमात्रे" इति टिलोपः।

तत्त्व-बोधिनी
साक्षाद्द्रष्टरि संज्ञायाम् १४३६, ५।२।९०

साक्षाद्द्रष्टरि। द्रष्टर्यर्थे इनिः स्यात्। साक्षाच्छ६ब्दोऽव्ययम्, तेन "प्रकृतिवदनुकरण"मित्यतिदेशादिह सूत्रे पञ्चम्या लुक्। "उदः स्थास्तम्भोः", "अवाच्छालम्बने"त्यादौ तु "प्रकृतिव"दित्यतिदेशस्य वैकल्पिकत्वेनाऽभ्ययत्वाऽभावात् पञ्चम्या लुङ् न भवतीति बोध्यम्। साक्षीति। "अव्ययानां भमात्रे"इति टिलोपः। यद्यपि साक्षाद्द्रष्टाररुआयो भवन्ति, दाता ग्रहीता उपद्रष्टा त, तथापीह संज्ञाग्रहणात्साक्षिशब्देनोपद्रष्टैवोच्यत इत्याहुः।