पूर्वम्: ५।२।८७
अनन्तरम्: ५।२।८९
 
सूत्रम्
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि॥ ५।२।८८
काशिका-वृत्तिः
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ५।२।८९

परिपन्थिन् परिपरिनित्येतौ शब्दौ छन्दसि विषये निपात्येते, पर्यवस्थातरि वाच्ये। पर्यवस्थाता प्रतिपक्षः, सप्त्न उच्यते। मा त्वा परिपन्थिनो विदन् मा त्वा परिपरिणो विदन्।
न्यासः
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि। , ५।२।८८

किं पुनरत्रेवं निपात्यते? पर्यवस्थातृशब्दं व्यवस्थाप्य तदवयवस्यावस्थातृशब्दस्य पम्थ आदेश एकत्र क्रियते, अपरत्र तस्यैव परिशब्दः, पश्चादिनिप्रत्ययः॥
बाल-मनोरमा
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि १८६४, ५।२।८८

छन्दसि परिपन्थि। परिपन्थिन्, परिपरिन् एतौ शब्दौ छन्दसि निपात्येते पर्यवस्थातरि वाच्ये। पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पन्थादेसे परिपन्थिन्शब्दः। पर्यवस्थातृशब्दादिनिप्रत्यये अवस्थातृशब्दस्य पर इत्यादेसे परिपरिन्शब्दः। "मा त्वा विदन्परिपन्थिनः, मा वा परिपरिणो विदन्" इति श्रुतौ उदाहरणम्। इदं सूत्रं वैदिकप्रक्रियायामेव व्याख्यातुमुचितम्।

तत्त्व-बोधिनी
छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि १४३४, ५।२।८८

छन्दसि। पर्यवस्थातृशब्दाच्छत्रुपर्यायात्स्वार्थे इनिप्रत्यचयः, अवस्थातृशब्दस्य च "पन्थ" "पर" एतावादेशौ निपात्येते। "अपत्यं परिपन्थिनम्", "मा त्वा परि परिणो विदन्"। उभयत्रापि परिशब्देऽवग्रहः।लोके त्विति। "अनुपस्थितपरिपन्थिभिः पार्थिवै"रित्यादौ।