पूर्वम्: ५।२।७९
अनन्तरम्: ५।२।८१
 
सूत्रम्
कालप्रयोजनाद्रोगे॥ ५।२।८०
काशिका-वृत्तिः
कालप्रयोजनाद् रोगे ५।२।८१

अर्थलभ्या समर्थविभक्तिः। कालात् प्रयोजनाच् च यथायोगं समर्थविभक्तियुक्तात् रोगे ऽभिधेये कन् प्रत्ययो भवति। कालो देवसादिः। प्रयोजनं कारणं रोगस्य फलं वा। द्वितीये ऽह्नि भवो द्वितीयको ज्वरः। चतुर्थकः। प्रयोजनात् विषपुष्पैर् जनितो विषपुष्पको ज्वरः। काशपुष्पकः। उष्णं कार्यम् अस्य उष्णको ज्वरः। शीतको ज्वरः। उत्तरसूत्रातिह संज्ञाग्रहणम् अपकृष्यते। तेन अयं प्रकारनियमः सर्वो लभ्यते।
न्यासः
कालप्रयोजनाद्रोगे। , ५।२।८०

"अर्थलभ्या" इत्यादि। अर्थोऽधिकरणादिः। तेनात्र सप्तमीप्रभृतिरनुक्तापि समर्थविभक्तिर्लभ्यते। "प्रयोजनं कारणशब्देनोव्यते कालग्रहणं पृथङ्न कर्तव्यम्(), कालोऽपि रोगस्य कारणं भवति? नैतदस्ति; न ह्रवश्यं कालो रोगस्य कारणं भवति। तत्र यदा ह्रसौ रोगस्य कारणं न भवति, तथापि ततो यथा स्यादित्येवमर्थं कालग्रहणम्()। "द्वितोयेऽह्नि भवो द्वितीयकः" इति। तत्र कारणान्तराद्वातादेः कुतश्चिद्भवतो ज्वरस्य कालः केवलमधिकरणभावेन विवक्षितः, न तु हेतुभावेन। कथं पुनः कालादन्यतः प्रत्ययो द्वितीयादिभ्यः शब्देभ्यो भवति, न ह्रेते कालशब्दाः प्रसिद्धाः, सामान्यशब्दा ह्रेते, शब्दान्तरसन्निधानात्? तु काले वृत्तिरेषां गम्यते? नैष दोषः; वाक्ये ह्रेषां शब्दान्तरसन्निधौ कलि वृत्तिः, वृत्तिगतश्च प्रकृत्यर्थः प्रत्ययानां विशेषणम्(); सन्निहितत्वात्()। न वाक्यगतः; विप्रकर्षात्()। "विषपुष्पैर्जनितः" इति। तृतीया। "उष्णं कार्यमस्य" इति। अत्र कार्यकारणसम्बन्धो विवक्षितः। स चेदंशब्दादेवोत्पन्नया षष्ट()आभिहित इत्युष्णशब्दात्? प्रथमैव भवति। इह कालप्रयोजनविशेषवाचिभ्यः प्रत्ययोऽभिहितः, न कालप्रयोजनशब्दाभ्याम्(); कालविशेषवाचिभ्यो भवन्? क्रियायाः कर्तरि ज्वरे प्रयोजनविशेषवाचिभ्यः प्रयोजनमिति; कार्यकारणविवक्षायाञ्च कार्यसम्बन्धिनि। न चायं प्रकारनियमः सूत्रे उक्तः, तत्कथं लभ्यते? इत्यत आह--"उत्तरसूत्रादिह संज्ञाग्रहणमपकृष्यते" इति। तेन तस्मिन्? सत्ययमर्थो भवति--प्रत्ययान्तश्चेत्? संज्ञा भवति, त()स्मश्चार्थे सति प्रत्ययान्तं यदि संज्ञा भवत्येवं प्रत्य उत्पद्यते, नान्यथेति। संज्ञाग्रहणसन्निधानादिह सर्वप्रकारोऽयं नियमो लभ्यते। न हि विना तेन प्रकारेम प्रत्ययान्तं संज्ञा भवति। ननु चोत्तरसूत्रे संज्ञाग्रहणं तस्यैव शेषभूतम्(), तत्कथं ततोऽपक्रष्ट शक्यते? नैष दोषः; उभयोरपि योगयोस्तच्छेषभूतम्()। कथम्()? योगविभागः करिष्यते-- "तदस्मिन्नन्नं प्राये" ततः "संज्ञायाम्()" इति; तेन संज्ञाग्रहणमुभयेषां शेषो विज्ञास्यते॥
बाल-मनोरमा
कालप्रयोजनाद्रोगे १८५६, ५।२।८०

कालप्रयोजनाद्रोगे। काल, प्रयोजन--अनयोः समाहारद्वन्द्वः। तदाह--कालवचनात्प्रयोजनवचनाच्चेति। "यथोचितविभक्त्यन्ता"दिति शेषः। कालशब्देनाऽत्र कालवृत्तिःपूरणप्रत्ययान्तो द्वितीयादिशब्द एव गृह्रते, न तु मासादिशब्दः, व्याख्यानात्। तदाह--द्वितीयेऽहनीति। प्रयुज्यतेऽनेनेति करणे ल्युटि "प्रयोजनं"साधनम्। कर्मणि ल्युटि तु फलम्। तदाह--प्रयोजनं कारणं रोगस्य फलं वेति।

तत्त्व-बोधिनी
कालप्रयोजनाद्रोगे १४२९, ५।२।८०

द्वितीयेऽहनीति। यद्यपि द्वितीयशब्दः कालवाची न भवति, तथाप्यप्र्रकरणादिना वृत्तिविषये काले वर्तत इति भावः। ननु साक्षात्कालवाचिभ्यो मासादिभ्यो न भवति, द्वितीयादिभ्यस्तु भवतीत्यत्र किं मानमिति चेदत्राहुः---उत्तरसूत्रस्थसंज्ञापकर्षणाच्छब्दस्वाभाव्याद्वा तद्बोध्यमिति।

वटकेभ्यैनिर्वाच्यः। वटकेभ्य इति। कमि प्राप्ते वचनम्। ननु संज्ञाग्रहणात्कन्न भविष्यतीति चेत्। किं ततः()। इनेरप्राप्तत्वात्तदर्थं वचनमङ्गीकार्यमेव। "अत इनिठनौ"इत्येव कथंचिदिनिः सिध्यतीत्याशाऽत्र न कार्या, "सप्तम्यां च न तौ स्मृतौ"इति वचनात्।