पूर्वम्: ५।२।७७
अनन्तरम्: ५।२।७९
 
सूत्रम्
शृङ्खलमस्य बन्धनं करभे॥ ५।२।७८
काशिका-वृत्तिः
शृङ्खलम् अस्य बन्धनं करभे ५।२।७९

शृङ्खलशब्दात् प्रथमासमर्थादस्य इति षष्ठ्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं बन्धनं चेद् तद् भवति, यत् तदस्य इति निर्देष्टं करभश्चेत् स भवति। शृङ्खलं बन्धनम् अस्य करभस्य शृङ्खलकः। उष्ट्राणां बालकाः करभाः। तेषां काष्ठमयं पाशकं पादे व्यातिषज्यते, तदुच्यते शृङ्खलम् इति। यद्यपि रज्ज्वादिकम् अपि तत्र अस्ति तथापि शृङ्खलम् अस्य अस्वतन्त्रीकरणे भवति साधनम् इति बन्धनम् इत्युच्यते।
न्यासः
शृङ्खलमस्य बन्धनं करभे। , ५।२।७८

ननु च न शृङ्खलमात्रेण करभो बध्यते, किं तर्हि? रज्जवादिकेन च, तत्कथं शृङ्खलं बन्धनमुच्यते? इत्याह--"यद्यपि" इत्यादि। यद्यपि तत्र रज्ज्वादिकमप्यपरमस्ति, तथापि शृङ्खलमस्य तन्त्रीकरणं प्रति साधनं भवत्येव, न हि तेन तद्भवति। ततः शृङ्खलं बन्धनमुच्यते। रज्ज्वादिकमपि यदि बन्धनं भवति, भवतु! न ह्रत्रावधार्यते--शृङ्खलमेवेति॥
तत्त्व-बोधिनी
स एषां ग्रामणीः १४२८, ५।२।७८

स एषां ग्रामणीः। "ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु" इत्यमरः। करभ इति। उष्ट्रबालकः।