पूर्वम्: ५।२।७१
अनन्तरम्: ५।२।७३
 
सूत्रम्
अधिकम्॥ ५।२।७२
काशिका-वृत्तिः
अधिकम् ५।२।७३

अधिकम् इति निपात्यते। अध्यारूढस्य उत्तरपदलोपः कन् च प्रत्ययः। अधिको द्रोणः खार्याम्। अधिका खारी द्रोणेन। कर्तरि कर्मणि च अध्यारूढशब्दः।
न्यासः
अधिकम्?। , ५।२।७२

"अध्यारूढशब्दस्योत्तरपदलोपः" इति। उत्तरपदमारूढशब्दस्तस्य लोपो निपात्यते। कथं पुनरधिको द्रोणः खार्यामित्यस्य प्रथमान्तस्य द्रोणशब्दस्य प्रयोगः, अधिका खारी द्रोणेनेति तृतीयान्तस्य च? इत्यत आह--"कत्र्तरि कर्मणि च" इत्यादि। "गत्यर्थकर्मकश्लिष" ३।४।७२ इत्यादिना सूत्रेण रुहेः कत्र्तरि कर्मणि च क्तो विहितः, तेन कत्र्तरि कत्र्तरि कर्मणि चाध्यरूढशब्दो वत्र्तते, ततश्च तस्यार्थे व्युत्पाद्यमानोऽधिकशब्दोऽपि तत्पर्यायो भवंस्तयोरेवार्थयोर्भवति। तत्र यदा कत्र्तरि वत्र्तते तदा द्रोणशब्दात्? प्रथमा भवति, न तृतीया। यदा कर्मणि वत्र्तते तदा कर्त्तुरनभिहितत्वादधिकशब्देन द्रोणशब्दात्? तृतीया भवति। कर्मणस्त्वभिहितत्वात्? खारीशब्दात्? प्रथमैव भवति, न द्वितीया। "अधिका खारी द्रोणेन" इति। ननु चाधिको द्रोणः खार्यामस्यामित्यत्र कर्मणोऽनभिहितत्वात्? खारीशब्दाद्()द्वितीया प्राप्नोति? नैष दोषः; यदयम्? "यस्मादधिकम्? २।३।९ "तदस्मिन्नधिकम्()" ५।२।४५ इति च निर्देशं करोति तज्ज्ञापयति--अधिकशब्देन योगे पञ्चमीसप्तम्यावेव विभक्ती भवत इति॥
बाल-मनोरमा
अधिकम् १८४९, ५।२।७२

अधिकम्। अध्यारूढशब्दादिति। व्युत्पादनमात्रमिदम्। शुद्धरूढ एवायमिति बोध्यम्।

तत्त्व-बोधिनी
अधिकम् १४२४, ५।२।७२

अधिकम्। अध्यारूढशब्दादिति। "गत्यार्थाकर्मके"त्यादिना रूहेः कर्तरि कर्मणि वा क्तो विहितः। आद्ये क्तप्रत्ययेन कर्मणोऽनभिहितत्वादध्यारूढशब्दयोगे द्वितीया। "अध्यारूढो द्रोणः खारी"मिति, "ग्रामं गत"इतिवत्। तथा अधिकशब्देनापि योगे द्वितीयायां प्राप्तायां "यस्मादधिकं", "तदस्मिन्नधिक"मिति च निर्देशद्वयाकत्पञ्चमीसप्तम्यौ भवतः। "अधिको द्रोणः खार्याः। "अधिको द्रोणः खार्या"मिति। द्वितीये तु क्तेन कर्मणोऽभिहितत्वात्प्रथमा। "अधिका खारी द्रोणेन"। कर्मणोऽभिहितत्वादेव पञ्चमीसप्तम्याविह न शङ्कनीये।