पूर्वम्: ५।२।६९
अनन्तरम्: ५।२।७१
 
सूत्रम्
ब्राह्मणकोष्णिके संज्ञायाम्॥ ५।२।७०
काशिका-वृत्तिः
ब्राह्मणकौष्णिके संज्ञायाम् ५।२।७१

ब्राह्मणक उष्णिक इत्येतौ शब्दौ निपात्येते कन् प्रत्ययान्तौ संज्ञायाम् विषये। ब्राह्मणको देशः। उष्णिका यवागूः। यत्र अयुधजीविनो ब्राह्मणाः सन्ति तत्र ब्राह्मणकः इति संज्ञा। अल्पान्ना यवागूः उष्णिका इत्युच्यते।
न्यासः
ब्राआहृणकोष्णिके संज्ञायाम्?। , ५।२।७०

किमर्थं पुनरिवम्(), यावता संज्ञायां व्युत्पाद्यते, संज्ञायामेव तु ब्राआहृणकोष्णिके? न; विषयान्तरेऽपि। तमेव विषयं दर्शयितुमाह--"यत्र" इत्यादि। गतार्थम्()॥
बाल-मनोरमा
ब्राआहृणकोष्णिके संज्ञायाम् १८४७, ५।२।७०

ब्राआहृणकोष्णिके। आयुधजीविविषयब्राआहृणशब्दात्प्रथमान्तादस्मिन्नित्यर्थे कन्निपात्यत इत्यर्थः। अल्पान्नशब्दस्येति। अल्पान्नशब्दात्प्रथमान्तादस्मिन्नित्यर्थे कन्प्रत्ययः, प्रकृतेरुष्णादेशश्च निपात्यत इत्यर्थः।

तत्त्व-बोधिनी
ब्राआहृणकोष्णिके संज्ञायाम् १४२२, ५।२।७०

ब्राआहृण कोष्णिके। ब्राआहृणशब्दादायुधीवित्वोपाधिकात्प्रथमान्तात्सप्तन्यर्थे कन् प्रत्ययो निपात्यते, अन्नशब्दात्तु अल्पत्वौपाधिकात्। तदाह---आयुधेत्यादि।