पूर्वम्: ५।२।७०
अनन्तरम्: ५।२।७२
 
सूत्रम्
शीतोष्णाभ्यां कारिणि॥ ५।२।७१
काशिका-वृत्तिः
शीतोष्णाभ्यां कारिणि ५।२।७२

शीतोष्णाशब्दाभ्यां कारिण्यभिधेये कन् प्रत्ययो भवति। क्रियाविशेषणाद् द्वितीयासमर्थादयं प्रत्ययः। शीतं करोति शीतकः। अलसो, जड उच्यते। उष्णं करोति उष्णकः। शीघ्रकारी, दक्ष उच्यते।
न्यासः
शीतोष्णाभ्यां कारिणि। , ५।२।७१

"क्रियाविशेषणात्()" इति। क्रियाविशेषणस्य हि कर्मत्वं प्रतिपादितम्()। "कारिणि" इति। ताच्छील्ये णिनिः। तस्य च प्रयोगे षष्ठी प्रतिषिद्धा, तस्मात्? कर्मणि द्वितीययैव भवितव्यम्()। क्रियाविशेषणाच्छीतादिशब्दाद्()द्वितीयासमर्थात्प्रत्ययो विज्ञायते। तेन नेह शोतोष्णशब्दो स्पर्शविषये वत्र्तमानौ प्रत्ययमुत्पादयतः। क्व तर्हि? मान्द्ये, शैघ्र्ये च; यस्मादावश्यके णिनिः। न स पदार्थोऽस्ति यः शीतोष्णस्पर्शौ नियोगतः करोति। तुषारातपावपि हि नावश्यं कुरुतः; प्रतिबन्धसम्भवात्()। कर्त्तृशक्तिस्तु पदार्थानां नियतेति सा शक्तिः कर्त्तृत्वे कश्चिन्नियोगतो मन्दं करोति, कश्चित्? शीघ्रमिति युज्यत एवावश्यकत्वम्()॥
बाल-मनोरमा
शीतोष्णाभ्यां कारिणि १८४८, ५।२।७१

शीतोष्णाभ्यां शीतमिव शीतं मन्दमित्यर्थः। उष्णमिव उष्णम्। शीघ्रमित्यर्थः। आभ्यां क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां कन्स्यादित्यर्थः। य आशु कर्तव्यानर्थाश्चिरेण करोति स शीतक उच्यते, यस्तु अनाशु कर्तव्याना()ओव करोति स उष्णक उच्यत इति भाष्ये। संज्ञायामित्यनुवृत्तेरयमर्थो लभ्यत इति कैयटः। तदाह--शीतकोऽलस इति। उष्णकः शीघ्रकारीति च।

तत्त्व-बोधिनी
शीतोष्णाभ्यां कारिणि १४२३, ५।२।७१

शीतोष्णाभ्याम्। शीतमिव शीतम्। मन्दमित्यर्थः। शूते सति कार्यकरणे पाटवाऽभावात्। उष्णमिवोष्णम्। शीग्रमित्यर्थः। क्रियाविशेषणाभ्यां द्वितीयान्ताभ्यां प्रत्ययः। कृद्योग लक्षणा षष्ठी तु क्रियाविशेषणान्नेत्युक्तम्। मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवति, अनभिधानात्।