पूर्वम्: ५।२।६८
अनन्तरम्: ५।२।७०
 
सूत्रम्
तन्त्रादचिरापहृते॥ ५।२।६९
काशिका-वृत्तिः
तन्त्रादचिरापहृते ५।२।७०

तन्त्रशब्दान् निर्देशादेव पञ्चमीसमर्थातचिरापहृते इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। अचिरापहृतः स्तोककालापहृतः इत्यर्थः। तन्त्रादचिरापहृतः तन्त्रकः पटः। तन्त्रकः प्रावारः। प्रत्यग्रो नव उच्यते।
न्यासः
तन्त्रादचिरापह्मते। , ५।२।६९

"अचिरापह्मतम्()" इति। अचिरशब्दोऽल्पकालवचनः, तस्यापह्मतशब्देनापह्मतो गतः कालोऽस्येति "कालाः परिमाणिना" २।२।५ इति समासः। "पञ्चमीसमर्थात्()" इति। निर्देशादेव। न हीह काचित्? प्रकृता विभक्तिरनुवत्र्तते, पञ्चमीनिर्देशश्च श्रुयते, तस्मान्निर्देशादेव पञ्चमीसमर्थात्? प्रत्ययो विज्ञायते। सा पुनः पञ्चम्यपहरतेरपायवचनत्वात्? तद्योगेन तन्त्रमपादानमेव भवतीत्यपादानलक्षणा वेदितव्या॥
बाल-मनोरमा
तन्त्रादचिरापह्मते १८४६, ५।२।६९

तन्त्रादचिरापह्मते। तन्त्रशब्दात्पञ्चम्यन्तादचिरापह्मतेऽर्थे कनित्यर्थः। तन्त्रं--तन्तुवायशलाका। अचिरेण कालेन अपह्मतः--अचिरापह्मतः। "कालाः परिमाणिने"ति समासः। प्रत्यग्र इति। नूतन इत्यर्थः।

तत्त्व-बोधिनी
तन्त्रादचिरापह्मते १४२१, ५।२।६९

तन्त्रात्। तन्यन्ते तन्तवोऽस्मिन्निति व्युत्पत्त्था तन्त्रं=तन्तुवायशलाका। अचिरः कालोऽपह्मतस्येत्यचिरापह्मतस्तस्मिन्। "कालाः परिमाणने"ति समासः। प्रत्यग्र इति। नूतन इत्यर्थः।