पूर्वम्: ५।२।६७
अनन्तरम्: ५।२।६९
 
सूत्रम्
अंशं हारी॥ ५।२।६८
काशिका-वृत्तिः
अंशं हारि ५।२।६९

अंशशब्दान् निर्देशादेव द्वितियासमर्थाद् हारी इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। अंशं हारी अंशको दायादः। अंशकः पुत्रः। हारी इति आवश्यके णिनिः। तत्र षष्ठीप्रतिषेधात् कर्मणि द्वितीया एव भवति।
न्यासः
अशं हारी। , ५।२।६८

"कर्मणि द्वितीयैव भवति" इति। कर्मणि द्वितीयायां प्राप्तायां कृद्योगलक्षणा तदपवादा षष्ठ()आरभ्यते। तस्याश्चावश्यके णिनिप्रत्यये "अकेनोर्भविष्यदाधमण्र्ययोः" २।३।७० इति प्रतिषेधः। तेन निरपवादाद्()द्वितीयैव भवति॥
बाल-मनोरमा
अंशं हारी १८४५, ५।२।६८

अंशं हारी। द्वितीयान्तादंशशब्दाद्धरीत्यर्थे कन्स्यादित्यर्थः। ननु कृद्योगषष्ठीप्रसङ्गादंशमिति कथं द्वितीयेत्यत आह--आवश्यके णिनिरिति। "आवश्यकाधमण्र्ययो"रित्यनेने"ति शेषः। षष्ठी नेति। "अकनो"रिति तन्निषेधादिति भावः।