पूर्वम्: ५।२।६६
अनन्तरम्: ५।२।६८
 
सूत्रम्
सस्येन परिजातः॥ ५।२।६७
काशिका-वृत्तिः
सस्येन परिजातः ५।२।६८

कन् प्रत्ययः इत्येव स्वर्यते, न ठक्। निर्देशादेव तृतीयासमर्थविभक्तिः। सस्यशब्दात् तृतीयासमर्थात् परिजातः इत्यस्मिन्नर्थे कन् प्रत्ययो भवति। सस्यशब्दो ऽयम् गुणवाचि। परिः सर्वतो भावे वर्तते। यो गुणैः सम्बद्धो जायते, यस्य किञ्चिदपि वैगुण्यं न अस्ति, तस्य इदम् अभिधानम्। सस्येन परिजातः सस्यकः शालिक। सस्यकः साधुः। सस्यको मणिः। आकरशुद्ध इत्यर्थः।
न्यासः
सस्येन परिजातः। , ५।२।६७

"सस्येन इति सहयोगलक्षणे तृतीया, इत्थम्भूतलक्षणे वा। "सस्यशब्दोऽयं गुणवाची" इति। सस्यशब्दो ह्रयं धान्यवचनोऽप्यस्ति, यथा--शालिः सस्यम्(), यवाः सस्यमिति; तस्य ग्रहणं मा विज्ञायीत्येवमर्थमिदमुक्तम्()--"इदमभिधानम्()" इति। सस्यक इत्येतत्? कन्प्रत्यान्तम्()॥
बाल-मनोरमा
सस्येन परिजातः १८४४, ५।२।६७

सस्येन परिजातः। तृतीयान्तात्सस्यशब्दात्परिजात इत्यर्थे कन्स्यादित्यर्थः। सन्निहितष्ठगेव कुतो नानुवर्तत इत्यत आह--कन्स्वर्यते नतु ठगिति। स्वरितत्वप्रतिज्ञायां तु पाणिनीयपरम्परैव प्रमाणम्। गुणवाचीति। व्याख्यानमेवात्र शरणम्। शस्येनेतीति। "शंसु स्तुतौ" इति धातोः कर्मणि यति शस्यशब्दः स्तुत्यपर्यायः। स्तुत्यश्च गुण एवेति भावः। परिजात इत्यस्य विवरणं--संबद्ध इति।

तत्त्व-बोधिनी
सस्येन परिजातः १४२०, ५।२।६७

सस्येन। कर्मकर्तरि तृतीयेयम्। परितो जातः---परिजातः। फलितमाह---संबद्ध इति। अतएवेति। "अके नो"रिति निषेधादिति भावः।