पूर्वम्: ५।२।६५
अनन्तरम्: ५।२।६७
 
सूत्रम्
उदराट्ठगाद्यूने॥ ५।२।६६
काशिका-वृत्तिः
उदराट् ठगाद्यूने ५।२।६७

तत्र इत्येव, प्रसिते इति च। उदरशब्दात् सप्तमीसमर्थात् प्रसिते इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। आध्यूने इति प्रत्ययार्थविशेषणम्। उदरे ऽविजिगीषुर्भण्यते। यो बुभुक्षया ऽत्यन्तं पीड्यते स एवम् उच्यते। उदरे प्रसितः औदरिकः आद्यूनः। आद्यूने इति किम्? उदरकः।
न्यासः
उदराट्ठगाद्यूने। , ५।२।६६

पूर्वेण कनि प्राप्ते ठग्विधीयते। "आद्यूनोऽविजिगीषुः" इति। "विवोऽविजिगीषायाम्()" ८।२।४९ इत्यविजिगीषायामेव विवो निष्ठातकारस्य नत्वविधानात्()। "उदरकः" पूर्वेण कनेन भवति॥
बाल-मनोरमा
उदराट्ठगाद्यूने १८४३, ५।२।६६

उदराट्ठगाद्यूने। तत्र प्रसित इत्यनुवर्तते। सप्तम्यन्तादुदरशब्दादाद्यूने प्रसितेऽर्थे ठगित्यर्थ इत्यभिप्रेत्य आद्यूनशब्दं विवृण्वन्नाह--अविजिगीषाविति। "दिवोऽविजिगाषाया"मित्यविजिगाषायामेव दिवो निष्ठानत्वविधानादिति भावः। बुभुक्षयेति। क्षुधा पीडित एव सन् उदरपरिमार्जने प्रसितो नतु मल्लवद्युद्धे विजिगीषयेत्यर्थः। उदरक इति। "मल्ल" इति शेषः। स हि युद्धे विजिगीषया उदरपरिमार्जनादौ उत्सुको भवति। तदाह--उदर परिमार्जनादौ प्रसक्त इति। "विजिगीषये"ति शेषः।

तत्त्व-बोधिनी
उदराट्ठगाद्यूने १४१९, ५।२।६६

अविजिगीषाविति। "दिवोऽविविगीषाया"मिति तत्रैव निष्ठानत्वविधानात्।