पूर्वम्: ५।२।६४
अनन्तरम्: ५।२।६६
 
सूत्रम्
स्वाङ्गेभ्यः प्रसिते॥ ५।२।६५
काशिका-वृत्तिः
स्वाङ्गेभ्यः प्रसिते ५।२।६६

तत्र इत्येव, कनिति च। स्वाङ्गवाचिभ्यः शब्देभ्यः तत्र इति सप्तमीसमर्थेभ्यः प्रसिते इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति। प्रसितः प्रसक्तस् तत्परः इत्यर्थः। केशेषु प्रसितः केशकः। केशादिरचनायां प्रसक्त एवम् उच्यते। बहुवचनं स्वाङ्गसमुदायशब्दादपि यथा स्यात्। दन्तौष्ठकः। केशनखकः।
न्यासः
स्वाङ्गेभ्यः प्रसिते। , ५।२।६५

"प्रसिते" इति। यद्यपि सिनोतिरयं "षिञ्? बन्धने" (धा। पा। १४७७) इति बन्धने पठ()ते, तथाप्यनेकार्थत्वादिहासक्तौ वत्र्तते। "केशेषु प्रसितः" इति। "प्रसितोत्सुकाभ्यां तृतीया च" २।३।४४ इति सप्तमी। आसक्तिश्च क्रियाविषयो धर्म इति केशादिस्थानबला क्रिया केशादिशब्देनोच्यते। अत एवाह--"केशादिरचनायां प्रसक्त एवमुच्यते" इति। "बहुवचनं स्वाङ्गसमुदायादपि यथा स्यात्()" इति। असति हि तस्मिन्(), यथा जनपदसमुदायो जनपदग्रहणेन न गृह्रते, तथा स्वाङ्गसमुदायोऽपि स्वाङ्ग्रहणेन नेति स्वाङ्गसमुदायान्न स्यात्(), त()स्मस्तु सति भवति; अन्यथा तस्य प्रयोजनाभावात्()। स्वरूपविधिनिरासस्तस्य प्रयोजनमिति चेत्()? न; "अद्रवम्()" (काशिका ४।१।५४) इत्यादिना स्वाङ्गस्य परिभाषितत्वेन स्वरूपविधेरसम्भवात्()॥
बाल-मनोरमा
स्वाङ्गेभ्यः प्रसिते १८४२, ५।२।६५

स्वाङ्गेभ्यः प्रसिते। तत्रेत्यनुवर्तते। स्वाङ्गेभ्यः सप्तम्यन्तेभ्यः प्रसितेऽर्थे कन्स्यादित्यर्थः। प्रसितः=उत्सुकः। तद्रचनायामिति। वेण्यादिग्रथने इत्यर्थः। अत्रैवार्थेऽस्य साधुत्वम्, व्याख्यानादिति भावः।